SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ 11 483 11 Jain Education Inte adeeeeeeeeeeeee dacodaiadiade अथाशरणभावनामुपदिशति- इन्द्रोपेन्द्रादयोऽप्येते यन्मृत्योर्यान्ति गोचरम् । अहो ! तदन्तकातङ्के कः शरण्यः शरीरिणाम् ? ॥ ६१ ॥ इन्द्रः सुरनाथः, उपेन्द्रो वासुदेवः, तावादी येषां सुर- मनुष्यादीनाम्, चक्रवर्तिपरिहारेणोपेन्द्रग्रहणं लोके मृत्युकाले शरणत्वोपहासपरम्, तेऽपि यद् यस्माद् मृत्योर्गोचरं वशं यान्ति, अहो इति विस्मये, तत् तस्मादन्तकातङ्के मृत्युभये | उपस्थिते कः शरण्यः शरणे साधुः शरीरिणां जन्तूनाम् ? कोऽपि नास्तीत्यर्थः ॥ ६१ ॥ तथापितुर्मातुः स्वसुर्भ्रातुस्तनयानां च पश्यताम् । अत्राणो नीयते जन्तुः कर्मभिर्यमसद्मनि ॥ ६२ ॥ पित्रादीनां पश्यतां ताननादृत्यैवात्राणोऽशरणो जन्तुः कर्मभिः परभववेदनीयैः शुभाशुभैर्यमसद्मनि यमालये नीयते एतच्च लोकप्रसिद्धयपेक्षम्, न पुनर्यमसद्मनि कश्चिद नीयते, अपि तु चतुर्गतिस्वरूपे संसारे तत्तद्गत्युचितैः कर्मभिस्तत्र तत्र नीयत इति परमार्थः ।। ६२ ।। तथा- शोचन्ति स्वजनानन्तं नीयमानान् स्वकर्मभिः । नेष्यमाणं तु शोचन्ति नात्मानं मूढबुद्धयः ॥ ६३॥ For Private & Personal Use Only acade 5 10 ॥ ८४३ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy