________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८४२ ॥
Jain Education I
उपमानेपदं किं स्यात् फेन-बुद्बुद-विद्युताम् । समागमाः सापगमाः सुहृद्भिर्बन्धुभिर्निजैः । ध्यायन्ननित्यतां नित्यं मृतं न शोचति ।
१
धनस्य नश्यतोऽवश्यं पश्यतामपि तद्वताम् ॥ १७ ॥ स्वस्य वाऽन्यस्य वा नाशे विकृतेऽपकृतेऽपि वा ॥ १८ ॥ नित्यताग्रह मूढस्तु कुड्यभङ्गेऽपि रोदिति ॥ १९ ॥
एतच्छरीरधनयौवनबान्धवादि, तावद् न केवलमनित्यमिहासुभाजाम् ।
विश्वं सचेतनमचेतनमप्यशेषमुत्पत्तिधर्मकमनित्यमुशन्ति सन्तः ॥ २० ॥ ५७ ॥ ५८ ॥ ५९ ॥
अनित्यताभावनामुपसंहरन्नुपदर्शयति
इत्यनित्यं जगद्वृत्तं स्थिरचित्तः प्रतिक्षणम् ।
तृष्णाकृष्णाहिमन्त्राय निर्ममत्वाय चिन्तयेत् ॥ ६० ॥
इति पूर्वोक्तप्रकारेण जगद्वत्तं जगत्स्वरूपमनित्यं प्रतिक्षणं चिन्तयेदवधारयेत्, स्थिरचित्तो निश्चलचित्तः सन् । किमर्थम् ? | निर्ममत्वाय, अनित्यत्वादिभावनासाध्यवीतरागत्वनिमित्तम् । किंविशिष्टाय ? तृष्णाकृष्णाहिमन्त्राय, तृष्णा रागः, सैव कृष्णाहिः, तस्या मन्त्राय मन्त्रस्वरूपाय । अहिशब्दः स्त्रीलिङ्गोऽप्यस्तीति नोपमानोपमेययोर्भिन्नलिङ्गत्वम् । अनित्यता ॥ १ ॥ ६० ॥
१ ० नमिदं खं. ॥
For Private & Personal Use Only
Beeded
चतुर्थः
प्रकाशः
श्लोकः ६०
॥ ८४२ ॥
5
अनित्य
भावना
वर्णनम्
10
www.jainelibrary.org