SearchBrowseAboutContactDonate
Page Preview
Page 530
Loading...
Download File
Download File
Page Text
________________ HEIGHERRHEMERGINEERINGINEERI असारेषु शरीरेषु स्थेमानं यश्चिकीर्षति । जीर्णशीर्णपलालोत्थे चश्चापुंसि करोतु सः ॥ ३॥ न मन्त्र-तन्त्र-भैषज्यकरणानि शरीरिणाम् । त्राणाय मरणव्याघ्रमुखकोटरवासिनाम् ॥ ४ ॥ प्रवर्द्धमानं पुरुषं प्रथमं ग्रसते जरा। ततः कृतान्तस्त्वरते धिगहो ! जन्म देहिनाम् ॥ ५॥ यद्यात्मानं विजानीयात् कृतान्तवशवर्तिनम् । को ग्रासमपि गृह्णीयात् पापकर्मसु का कथा ? ॥ ६॥ समुत्पद्य समुत्पद्य विपद्यन्तेऽप्सु बुद्धदाः। यथा तथा क्षणेनैव शरीराणि शरीरिणाम् ॥ ७॥ आढयं निःस्वं नृपं रकं ज्ञं मूर्ख सज्जनं खलम् । अविशेषेण संहर्तुं समवर्ती प्रवर्तते ॥ ८॥ न गुणेष्वस्य दाक्षिण्यं द्वेषो दोषेषु चास्ति न । दवाग्निवदरण्यानीं विलुम्पत्यन्तको जनम् ॥९॥ इदं तु मा स्म शकिष्ठाः कुशास्त्रैरपि मोहितः। कुतोऽप्युपायतः कायो निरपायो भवेदिति ॥ १० ॥ ये मेरुं दण्डसात् कर्तुं पृथ्वीं वा छत्रसात् क्षमाः। तेऽपि त्रातुं स्वमन्यं वा न मृत्योः प्रभविष्णवः ॥ ११ ॥ आ कीटादा च देवेन्द्रात् प्रभावन्तकशासने। अनुन्मत्तो न भाषेत कथञ्चित् कालवञ्चनम् ॥ १२ ॥ पूर्वेषां चेत् क्वचित् कश्विज्जीवन् दृश्येत तद् वयम् । मनोरथातीतमपि प्रतीमः कालवञ्चनम् ॥ १३ ॥ अनित्यं यौवनमपि प्रतियन्तु मनीषिणः । बलरूपापहारिण्या जरसा जर्जरीभवेत् ॥ १४ ॥ यौवने कामिनीभिर्ये काम्यन्ते कामलीलया। निकामकृतथूत्कारं त्यज्यन्ते तेऽपि वाईके ॥ १५ ॥ यदर्जितं बहुक्लेशैरभुक्त्वा यच्च पालितम् । तद् याति क्षणमात्रेण निधनं धनिनां धनम् ॥ १६ ॥ VERaaaaaEETENCERTRENEHEHCHCHCHEHERREE 10.2 Jain Education Intel 28 For Private & Personal Use Only www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy