________________
स्वोपश
चतुर्थः
वृत्ति
प्रकाशः श्लोकाः ५७
विभूषितं योगशास्त्रम्
॥ ८४०॥
॥८४०॥
BIHSHORIGIMERCISHMISSIOHERSIONRCHCHEATRIGHEREHSIL
निर्ममत्वस्याप्युपायं दर्शयति--तत्कृते निर्ममत्वनिमित्तं भावना अनुप्रेक्षाः श्रयेद् योगीति प्रकृतम्। भावना नामतः कथयति-अनित्यतामित्यादि, स्पष्टं चैतत् ॥ ५५ ॥ ५६॥ । तद्यथा इत्युपस्कारपूर्वकमनित्यताख्यां प्रथमा भावनां दर्शयति--
यत् प्रातस्तन्न मध्याह्ने यन्मध्याह्ने न तनिशि। निरीक्ष्यते भवेऽस्मिन् ही! पदार्थानामनित्यता ॥ ५७॥ शरीरं देहिनां सर्वपुरुषार्थनिबन्धनम् । प्रचण्डपवनोद्धृतघनाघनविनश्वरम् ॥ ५८ ॥ कल्लोलचपला लक्ष्मीः संगमाः स्वमसंनिभाः।
वात्याव्यतिकरोत्क्षिप्ततूलतुल्यं च यौवनम् ॥ ५९॥ श्लोकत्रयं स्पष्टम् , नवरं शरीरमित्यादि श्लोके पूर्वाः यदिति शेषः, उत्तरार्द्ध तदिति शेषः ॥ अत्रान्तरश्लोकाःखतोऽन्यतश्च सर्वाभ्यो दिग्भ्यश्चागच्छदापदः। कृतान्तदन्तयन्त्रस्थाः कष्टं जीवन्ति जन्तवः ॥१॥ वज्रसारेषु देहेषु यद्यास्कन्दत्यनित्यता। रम्भागर्भसगर्भेषु का कथा तर्हि देहिनाम् ॥२॥
THEREHEHEHEREHENSHCHECHEHEHESHEHEREIN
द्वादश
भावनानिरूपणम्
Jain Education Intem
For Private & Personal use only
Charary.org