________________
॥ ८३९ ॥
Jain Education Internat
रागद्वेषादिशत्रुप्रतिहतिनिपुणां साम्यसाम्राज्यलक्ष्मी,
भुक्त्वा भुक्त्वा निरन्ताः शुभगतिपदवीं लेभिरे प्राणभाजः । तेनैतद् मानुषत्वं सपदि सफलतां नेतुकामैर्निकामं,
साम्ये निस्सीमसौख्यप्रचयपरिचिते न प्रमादो विधेयः ॥ १६ ॥ ५४ ॥
नववगतमेतत् सर्वदोषनिवारणकारणं समत्वम्, प्रीताः स्मः, यदि तु साम्यं प्रत्यप्युपायः कश्चन स्यात्, तदुपायेऽ|प्युपायान्तरमीषत्करं स्यात् तदा निराकाङ्क्षाः प्रमोदामहे, इत्यतेद् मनसि कृत्वा श्लोकद्वयमाह-साम्यं स्याद् निर्ममत्वेन तत्कृते भावनाः श्रयेत् । अनित्यतामशरणं भवमेकत्वमन्यताम् ॥ ५५ ॥ अशौचमाश्रवविधिं संवरं कर्मनिर्जराम् । धर्मस्वाख्याततां लोकं द्वादशीं बोधिभावनाम् ॥ ५६ ॥
साम्यं यथोक्तस्वरूपं निर्ममत्वेनोपायेन स्यात् । ननु साम्य - निर्ममत्वयोः को भेदः ?
योरुभयोरपि प्रतिपक्षभूतम्, निर्ममत्वं तु रागस्यैकस्य प्रतिपक्षभूतम् । तद्दोषद्वयनिवारणाय साम्ये चिकीर्षिते भवति बलवत्त| रस्य रागस्य प्रतिपक्षभूतं निर्ममत्वमुपायः । यथा हि बलवत्यां सेनायां चलवत्तरस्य कस्यचिद् विनाश इतरेषां विनाशाय तथा रागनिग्रहहेतुर्निर्ममत्वं हीनबलानां द्वेषादीनां विनाशायेति अलं प्रसङ्गेन ।
For Private & Personal Use Only
उच्यते-- साम्यं राग-द्वेष
Blalalalalalalalalaladde
5
10
॥ ८३९ ॥
jainelibrary.org