________________
॥८३७॥
BHEHEREHEREHEREHEHEKHETHEHREHEREHEARTHEHETRIBHEHCHCHET
अयमर्थः-ईदृशः साम्यस्य महिमा यदेतत् स्वनिमित्तं कृतमपि परेषु नित्यवैरिषु पर्यवस्यति, यत् स्तुवन्ति विद्वांसः
" देवाकृष्य करेण केशरिपदं दन्ती कपोलस्थली
कण्डूयत्यहिरेष बभ्रुपुरतो मार्ग निरुध्य स्थितः । व्याघ्रव्यात्तविशालवक्त्रकुहरं जिघ्रत्यजस्रं मृगो
यत्रैवं पशवः प्रशान्तमनसस्तामर्थये त्वद्भुवम् ॥ १॥" [ लौकिका अपि साम्यवतां योगिनां स्तुतिमाहुर्यथा--
"तत्सन्निधौ वैरत्यागः" [ पातञ्जलयोगदर्शने २ । ३५ ] इति । अत्रान्तरश्लोकाः-- चेतनाचेतनभावरिष्टानिष्टतया स्थितैः। न मुह्यति मनो यस्य तस्य साम्यं प्रचक्षते ॥ १॥ गोशीर्षचन्दनालेपे वासीच्छेदे च वाहयोः। अभिन्ना चित्तवृत्तिश्चेत् तदा साम्यमनुत्तरम् ॥ २ ॥ अभिष्टोतरि च प्रीते रोषान्धे चाभिशप्तरि। यस्याविशेषणं चेतः स साम्यमवगाहते ॥ ३ ॥
HCHCHEIGHSHSHISHEHICHCHIGHSHISHERSHISHEKSHEKSHISHISHMISHERE
॥ ८३७॥
१ “अहिंसाप्रतिष्ठायां तत्सान्नधौ वैरत्यागः" इति सम्पूर्ण सूत्रम् ॥ २ ०च्छेदेथवानयोः-शां.। “भुजो बाहुः प्रवेष्टो कदोर्वाहा........ ।। ५८९ ॥” इति अभिधानचिन्तामणी॥
For Private & Personal Use Only
Jain Education Intemats
jainelibrary.org