________________
स्वोपज्ञ
वृत्ति
विभूषितं
योगशास्त्रम्
॥ ८३६ ॥
रागादय एव स्वरूपतिरोधायकत्वाद् ध्वान्तम् , तस्य विध्वंसः, तस्मिन् कृते । केन? सामायिकमेवांशुरादित्यस्तेन ।।
चतुर्थः ततः किं स्यात् ? स्वस्मिन्नात्मनि परमात्मनः स्वरूपं योगिनः पश्यन्ति । सर्वेऽपि ह्यात्मानस्तत्त्वतः परमात्मान एव, केवल
प्रकाशः ज्ञानस्य येन तेनांशेन सर्वत्र भावात् , यत् परमार्षम्--
श्लोकः ५४ "सेव्वजीवाणं पि अ णं अक्खरस्साणंतभागो निच्चुग्धाडियओ चेव" [नन्दीसूत्रे सू० ७७] ।
।। ८३६॥ है केवलं रागद्वेषादिदोषकलुषितत्वाद् न साक्षात् परमात्मस्वरूपाभिव्यक्तिः। सामायिकांशुमत्प्रकाशनेन तु रागादितिमिरेऽपगते । आत्मन्येव परमात्मखरूपमभिव्यक्तं भवति ॥ ५३॥
ससाम्यप्रभावइदानीं साम्यप्रभावं व्यनक्ति--
वर्णनम् स्निह्यन्ति जन्तवो नित्यं वैरिणोऽपि परस्परम् ।
अपि स्वार्थकृते साम्यभाजः साधोः प्रभावतः ॥५४॥ अपि स्वार्थकृते स्वार्थनिमित्तमपि साम्यवतः साधोः प्रभावाद् नित्यवैरिणोऽप्यहि-नकुलादयः स्निह्यन्ति परस्परं मैत्री 10 कुर्वन्ति ।
१ पारमर्षम्-मु.॥ २ सर्वजीवानमपि च अक्षरस्यानन्तभागो नित्योद्घाटित एव ॥ ३०स्सणंत-शां. खं. संपू.।।
Jain Education Intel
For Private & Personal Use Only
Elww.jainelibrary.org