________________
८३५॥
TECHEHEYESTEHSHSHEHEHEHEREMEMEHEEREYEHEHEREMICHEHCHIEVE
कथमन्तर्मुहूर्त्तमात्रेण साम्यं सर्वकर्मापनायकमित्याह--
कर्म जीवं च संश्लिष्टं परिज्ञातात्मनिश्चयः ।
विभिन्नीकुरुते साधुः सामायिकशलाकया ॥५२॥ सामायिकमेव समत्वमेव शलाका वंशादिमयी, तया विभिन्नीकुरुते पृथक् करोति साधुर्यतिः । किं विभिन्नीकुरुते ? कर्म जीवं च संश्लिष्टं संपृक्तम् , यथा श्लेषद्रव्यसंपृक्तानां पत्रादीनां शलाकया पृथग्भावः क्रियते तथा जीव-कर्मणोरपि तादात्म्येन संवद्धयोः सामायिकेनेति । अयमेव कर्मक्षयः। न हि कर्मपुद्गलानामात्यन्तिकः क्षयः संभवति, नित्यत्वात् तेषाम् , आत्मनस्तु पृथग्भूतानि कर्माणि क्षीणानि इत्युच्यन्ते ।
ननु वाङ्मात्रमेतद् यत् सामायिकशलाकया साधुः कर्माणि पृथक् करोतीत्याह--परिज्ञातात्मनिश्चयः, परिज्ञातः पुनः पुनः संविदित आत्मनिश्चय आत्मनिर्णयो येन स तथा । अयमर्थः--आत्मज्ञानमभ्यस्यंस्तथाविधावरणापगमेन तथा पुनः
पुनः स्वसंवेदनेनात्मनिश्चयं दृढं करोति यथात्मरूपाद् भिन्नरूपाणि आत्मरूपावारकाणि च कर्माणि परमसामायिकबलेन | निर्जरयति ॥ ५२ ॥ न केवलमात्मनिश्चयवलेन कर्माणि पृथक् करोति यावदात्मनि परमात्मदर्शनमपि भवतीत्याह--
रागादिध्वान्तविध्वंसे कृते सामायिकांशुना । स्वस्मिन् स्वरूपं पश्यन्ति योगिनः परमात्मनः ॥५३॥
Jain Education Intem
For Private & Personal Use Only
w.jainelibrary.org