SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥८३४॥ यथा साम्यं राग-द्वेषजयोपायस्तथाऽऽह चतुर्थः अमन्दानन्दजनने साम्यवारिणि मज्जताम् । प्रकाशः श्लोको जायते सहसा पुंसां राग-द्वेषमलक्षयः ॥५०॥ साम्यमेवातिशीतीभावजनकत्वाद् वारि, तत्र । किंविशिष्टे ? अमन्दस्तीवो य आनन्दो आह्लादस्तस्य जनने, मज्जतां | तन्मध्यमवगाहमानानाम् , सहसा अकस्मात् । केषां ? पुंसां। राग-द्वेषावेव मलस्तस्य क्षयः। प्रसिद्धमेतद् यथा वारिणि मज्जतां मलक्षयो भवति, एवं साम्ये मेज्जतां लीयमानानां राग-द्वेषक्षयो भवति ।। ५० ॥ ____ न परं राग-द्वेषयोरेवापनायकं साम्यम् , अपि तु सर्वकर्मणामपीत्याह-- रागादिजयो पायवर्णनम् प्रणिहन्ति क्षणार्धेन साम्यमालम्ब्य कर्म तत् । यन्न हन्यान्नरस्तीव्रतपसा जन्मकोटिभिः ॥५१॥ प्रणिहन्ति हन्ति क्षणार्धनान्तर्मुहर्तन साम्यमुक्तलक्षणमालम्ब्याश्रित्य तत् कर्म ज्ञानावरणीयादि, यत् किम् ? यत् कर्म, न हन्याद् नापनयेद् नरः पुमान् तीव्रतपसा तीव्रण शरीरमनसोः संतापहेतुनाऽनशनादिरूपेणार्थात् साम्यरहितेन । जन्मकोटिभिर्बहुभिरपि जन्मभिः ॥५१ ।। १ निमजतां-मु.॥ HEHSHEHEREMIERENEMIERENCIENCHEICHEMEREMIERENCHEHEHEHEK Jain Education Intem For Private & Personal Use Only EClw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy