________________
स्वोपज्ञ
वृत्तिविभूषितं योगशास्त्रम्
॥ ८३२॥
तथा
चतुर्थः रागादितिमिरध्वस्तज्ञानेन मनसा जनः ।
प्रकाशः अन्धेनान्ध इवाऽऽकृष्टः पात्यते नरकावटे ॥४८॥
श्लोकः ४८ रागादय एव सम्यग्दर्शनविघातहेतुत्वात् तिमिरमक्ष्णोविप्लवः, तेन ध्वस्तं ज्ञानं तत्त्वालोको यस्य तेन तथाविधेन । ॥ ८३२ ॥ मनसा आकृष्टो जनो नरकावटे नरककूपे पात्यते। केन क इव ? अन्धेनाऽन्ध इव। रागादिभिरन्धीकृतेन मनसा जनोऽप्यन्धः । तस्यैव मार्गदर्शकत्वात् । ततो यथाऽन्धेनाऽन्धः समाकृष्याऽवटे पात्यते तथाऽन्धेन मनसा अन्धो जनो नरकाटे पात्यते।
अत्रान्तरश्लोकाःद्रव्यादिषु रति-प्रीती राग इत्यभिधीयते। तेष्वेवाऽरतिमप्रीतिं चाहुद्वेषं मनीषिणः॥१॥
दोषवर्णनम् उभावेतौ दृढतरं बन्धनं सर्वजन्मिनाम् । सर्वदुःखानोकहानां मूलकन्दौ प्रकीर्तितो ॥२॥ कः मुखे विस्मयस्मेरो दुःखे कः कृपणो भवेत । मोक्षं को नाप्नुयाद राग-द्वैषौ स्यातां न चेदिह ? ॥३॥ रागेण ह्यविनाभावी द्वेषो द्वेषेण चेतरः। तयोरेकतरत्यागे परित्यक्तावुभावपि ॥ ४ ॥ दोषाः स्मरप्रभृतयो रागस्य परिचारकाः। मिथ्याभिमानप्रमुखा द्वेषस्य तु परिच्छदः॥५॥ तयोर्मोहः पिता बीजं नायकः परमेश्वरः। ताभ्यामभिन्नस्तंद्रक्षः सर्वदोषपितामहः ॥६॥ १०वटे नरककूपे पात्यते-शां.॥ २ 'तयो रक्षा अस्ति यस्य स तद्रक्षः' इत्यर्थः। मुमध्ये तु 'तद्रक्ष्यः' इति पाठः ॥
रागादिः
Jain Education in
For Private & Personal Use Only
|www.jainelibrary.org