________________
।।८३१॥
अथ राग-द्वेषयोर्दुर्जयत्वं श्लोकत्रयेणाह
आत्मायत्तमपि स्वान्तं कुर्वतामत्र योगिनाम् ।
रागादिभिः समाक्रम्य परायत्तं विधीयते ॥ ४६॥ आत्मायत्तमपि आत्मनि निमग्नमपि वान्तं मनः कुर्वतां योगिनामत्र जगति रागादिभी राग-द्वेषाभ्यां तदविनाभूतेन च मोहेन समाक्रम्य रक्तं द्विष्टं मढं च कृत्वा परायत्तमात्मनोऽनधीनं क्रियते ॥ ४६ ॥ तथा
रक्ष्यमाणमपि स्वान्तं समादाय मनाग् मिषम् ।
पिशाचा इव रागाद्याश्छलयन्ति मुहुर्मुहुः ॥४७॥ ___ रक्ष्यमाणमपि गोप्यमानमपि यम-नियमादिभिर्मन्त्र-तन्त्रमायैः स्वान्तं भावमनः समादाय पुरस्कृत्य मनार मिषं स्वल्पं छलं प्रमादरूपं छलयन्ति आत्मवशं कुर्वन्ति। क एते ? रागादयः। क इव ? पिशाचा इव। मुहुर्मुहुरिति यदा यदा प्रमादलेशो भवति तदा तदा छलयन्ति । यथा हि पिशाचा मन्त्रादिकृतरक्षमपि साधकं छलं प्राप्याऽऽत्मवशं कुर्वन्ति तथा रागादयोऽपि योगिमन इति ॥४७॥
॥८३
१०लेशोऽपि-मु.॥
Jain Education Inte
For Private & Personal Use Only
ww.jainelibrary.org