SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥। ८३० ॥ Jain Education Inte यदाहुर्भगवन्तः लौकिकास्त्वाहु:-- " अन्ते च भरतश्रेष्ठ ! या मतिः सा गतिर्नृणाम् ॥ " [ ] इति । अत्र यदि मतिचेतनामात्रं तदा या मतिः सा गतिरिति किं केन संगतम् । अथाऽशुद्धतमादिपरिणामयुक्ता मतिर्व्याख्यायते तदमेव पारमर्षं वचनं साध्वित्यलं प्रसङ्गेन । एवं तावदशुद्धलेश्यात्यागेन विशुद्धलेश्यापरिग्रहेण च मनसः शुद्धिरुक्ता ।। ४४ ।। 41 'जलसे मरह तल्लेसेसु उववज्जइ । इदानीं मनःशुद्धिनिमित्तमीपत्करमुपायान्तरमुपदिशति— [ ] मनः शुद्धयै च कर्तव्यो राग-द्वेषविनिर्जयः । कालुष्यं येन हित्वाss मा स्वस्वरूपेऽवतिष्ठते ॥ ४५॥ मनसो भावमनस आत्मरूपस्य शुद्धिहेतवे कर्तव्यो राग-द्वेषयोः प्रीत्यप्रीत्यात्मकयोर्विनिर्जयो निरोधः, उदितयोर्विफलीकरणेन अनुदितयोश्चानुत्पादनेन । तथा सति किं स्यात् ? कालुष्यमशुद्धत्वं हित्वा आत्मा भावमनोरूपः स्वकीये स्वरूपे | परमशुद्धिलक्षणेऽवतिष्ठते स्थिरो भवति ।। ४५ ।। १ यल्लेश्यो म्रियते तल्लेश्येषु उपपद्यते । "जल्लेसाई दव्वाइं परियाइत्ता कालं करेइ तल्लेस्सेसु उववजह " इति भगवतीसूत्रे तृतीये शतके चतुर्थ उद्देशके ॥ २ ०परिणामादियुक्ता- शां. संपू. ॥ For Private & Personal Use Only aladaaee00898e Helelelelek चतुर्थः प्रकाशः श्लोकः ४५ ।। ८३० ।। 5 रागादिदोषवर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy