________________
॥ ८२७ ॥
Jain Education Inter
तत्र कृष्णवर्णपुद्गलसन्निधाने य आत्मनोऽशुद्धतमः परिणामः सा कृष्णलेश्या । नीलद्रव्यसन्निधाने य आत्मनोऽशुद्धतरः परिणामः सा नीललेश्या । कापोतवर्णद्रव्यसान्निध्यात्तदनुरूपोऽशुद्ध आत्मपरिणामः कापोतलेश्या । तेजोवर्णद्रव्य| सान्निध्यात्तदनुरूपः शुद्ध आत्मपरिणामस्तेजोलेश्या । पद्मवर्णद्रव्यसान्निध्यात्तदनुरूपः शुद्धतर आत्मपरिणामः पद्मलेश्या । शुक्लवर्णद्रव्यसान्निध्याच्छुद्धतम आत्मपरिणामः शुक्कलेश्या । कृष्णादिद्रव्याणि च सकलकर्मप्रकृतिनिः स्यन्दभूतानि, तदुपाधिजन्मानो भावलेश्याः कर्मस्थितिहेतवः । यदाह —
“ ताः कृष्ण-नील- कापोत- तैजसी - पद्म- शुक्लनामानः ।
श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ २ ॥ " [प्रशमरतौ ३८ ] एताश्वाऽशुद्धतमा-शुद्धतरा-शुद्ध-शुद्ध-शुद्धतर- शुद्धतमात्मपरिणामरूपा जम्बूफलखादकदृष्टान्ताद् ग्रामघातकदृष्टान्ताचावसेया: । आगमगाथाचात्र -
44
जैह जम्बुतरुवरेगो सुपकफलभरियनमियसालग्गो । दिट्ठो छहि पुरसेहिं ते बिंती जंबु भक्रखेो ॥ १ ॥ हि पुण ते बितेको आरुहमाणाण जीअसंदेहो । ता छिंदिऊण मूले पाडेउं ताहि भक्खेमो || २ ||
१ एता गाथा आवश्यकसूत्रे प्रतिक्रमणाध्ययनस्य हारिभद्रयां वृत्तौ [ पृ० ६४५ ] अपि क्वचित् किञ्चित्पाठभेदेन उद्धृताः ॥
२ यथा जम्बूतरुवर एकः सुपक्कफलभृतनमितशाखाग्रः । दृष्टः पभिः पुरुषैः ते ब्रुवन्ति जम्बूः भक्षयामः ॥ १ ॥ कथं पुनस्तान् ? ब्रवीत्येकः आरोहतां जीवसन्देहः । तस्मात् छित्त्वा मूले पातयित्वा तान् भक्षयामः ॥ २ ॥
5
10
॥ ८२७ ॥ w.jainelibrary.org