________________
॥८२५॥
हि यावत् कषायोदयस्तावन्निष्यन्दस्यापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यत एव" [उत्तराध्ययनसूत्रबृहद्वत्तौ पृ० ६५१ ]] इत्यादि, तदपि अश्लीलम् , लेश्यानामनुभागबन्धहेतुतया स्थितिबन्धहेतुत्वायोगात्। अन्यञ्च, कर्मनिष्यन्दः किं कर्मकल्क उत कर्मसारः? न तावत् कर्मकल्कः, तस्यासारतयोत्कृष्टानुभागबन्धहेतुत्वानुपपत्तिप्रसक्तः, कल्को हि असारो भवति, असारश्च कथमुत्कृष्टानुभागबन्धहेतुः? अथ चोत्कृष्टानुभागबन्धहेतवोऽपि लेश्या भवन्ति। अथ कर्मसार इति पक्षः तर्हि कस्य कर्मणः सार इति वाच्यम् । यथायोगमष्टानामपीति चेत्, अष्टानामपि कर्मणां शास्त्रे विपाका वर्ण्यन्ते, न च कस्यापि कर्मणो लेश्यारूपो विपाक उपदर्शितः, ततः कथं कर्मसारपक्षमंगीकुर्महे! तस्मात् पूर्वोक्त एव पक्षः श्रेयानित्यङ्गीकर्तव्यः, तस्य हरिभद्रसूरिप्रभृतिभिरपि तत्र तत्र प्रदेशे अङ्गीकृतत्वादिति" इति प्रज्ञापनासूत्रे सप्तदशे लेश्यापदे मलयगिरिसूरिविरचितायां टीकायाम् पृ० ३३०-३३१ ॥
"द्रव्यलेश्या नाम जीवस्य शुभाशुभपरिणामरूपायां भावलेझ्यायां परिणममानस्योपष्टम्भजनकानि कृष्णादीनि पुद्गलद्रव्याणि। ताभिश्च द्रव्यलेश्याभिः भावः शुभाशुभाध्यवसायरूपः साध्यते ॥१६४४॥” इति बृहत्कल्पभाष्यटीकायाम् पृ० ४८३॥ ___ अथ दिगम्बरग्रन्थानुसारेण लेश्यास्वरूपमुपदर्श्यते
“भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते” इति पूज्यपादाचार्यदेवनन्दिकृतायां तत्त्वार्थव्याख्यायां सर्वार्थसिद्धौ २।६॥
“कषायोदयरञ्जिता योगप्रवृत्तिर्लेश्या। द्विविधा लेश्या-द्रव्यलेश्या भावलेश्या चेति। तत्र द्रव्यलेश्या पुद्गलविपाकिकर्मोदयापादितेति सा नेह परिगृह्यते, आत्मनो भावप्रकरणात् । भावलेश्या कषायोदयरञ्जिता योगप्रवृत्तिरिति कृत्वा औदयिकीत्युच्यते। ननु च योगप्रवृत्तिरात्मप्रदेशपरिस्पन्दक्रिया, सा च वीर्यलब्धिरिति क्षायोपशमिकी व्याख्याता, कषायश्चौदयिको व्याख्यातः, ततो लेश्याऽनर्थान्तरभूतेति, नैष दोषः, कषायतीव्रमन्दावस्थापेक्षाभेदाद् अर्थान्तरत्वम्। सा षड्विधा-कृष्णलेश्या नीललेश्या । कपोतलेश्या तेजोलेश्या पद्मलेश्या शुक्ललेश्या चेति । तस्यात्मपरिणामस्याशुद्धिप्रकर्षाप्रकर्षापेक्षया कृष्णादिशब्दोपचारः क्रियते।
For Private & Personal Use Only
॥८२५॥
Jain Education Inter
2
28 jainelibrary.org