________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम् ।। ८२४ ।।
Jain Education Inte
सहान्वयव्यतिरेकदर्शनाद् योगनिमित्ता लेश्मेति निश्चीयते, सर्वत्रापि तन्निमित्तत्वनिश्चयस्यान्वय- व्यतिरेकदर्शन मूलत्वात् । | योगनिमित्तायामपि विकल्पद्वयमवतरति - किं योगान्तर्गतद्रव्यरूपा योगनिमित्तकर्मद्रव्यरूपा वा ? तत्र न तावद् योगनिमित्त कर्मद्रव्यरूपा, विकल्पद्वयानतिक्रमात् तथाहि - योगनिमित्तकर्मद्रव्यरूपा सती घातिकर्मद्रव्यरूपा अघातिकर्मद्रव्यरूपा वा ? न तावद् घातिकर्मद्रव्यरूपा, तेषामभावेऽपि सयोगिकेवलिनि लेश्यायाः सद्भावात् । नापि अघातिकर्मरूपा, तत्सद्भावेऽपि अयोगि| केवलिनि लेश्याया अभावात् । ततः पारिशेष्याद् योगान्तर्गतद्रव्यरूपा प्रत्येया । तानि च योगान्तर्गतानि द्रव्याणि यावत् कषाया|स्तावत् तेषामभ्युदयोपबृंहकाणि भवन्ति । दृष्टुं च योगान्तर्गतद्रव्याणां कषायोदयोपबृंहणसामर्थ्यम्, यथा पित्तद्रव्यस्य । तथाहि| पित्तप्रकोपवशादुपलक्ष्यते महान् प्रवर्धमानः कोपः । अन्यच्च, बाह्यान्यपि द्रव्याणि कर्मणामुदय-क्षयोपशमादिहेतव उपलभ्यन्ते, यथा ब्राह्म्योषधिर्ज्ञानावरणक्षयोपशमस्य, सुरापानं ज्ञानावरणोदयस्य, कथमन्यथा युक्तायुक्तविवेकविकलतोपजायते, दधिभोजनं | निद्रारूपदर्शनावरणोदयस्य तत् किं योगद्रव्याणि न भवन्ति । तेन यः स्थितिपाकविशेषो लेश्यावशादुपगीयते शास्त्रान्तरे स सम्यगुपपन्नः, यतः स्थितिपाको नामानुभाग उच्यते, तस्य निमित्तं कषायोदयान्तर्गतकृष्णादि लेश्यापरिणामाः, ते च परमार्थतः कषायस्वरूपा एव तदन्तर्गतत्वात्, केवलं योगान्तर्गतद्रव्य सहकारिकारण भेदवैचित्र्याभ्यां ते कृष्णादिमेदैर्भिन्नाः तारतम्य मेदेन विचित्राश्चोपजायन्ते, तेन यद् भगवता कर्मप्रकृतिकृता शिवशर्माचार्येण शतकारूये ग्रन्थेऽभिहितम् - " ठिइअणुभागं कसायओ | कुणइ " [ बन्धशतके गा० ९९ ] इति, तदपि समीचीनमेव कृष्णादिलेश्यापरिणामानामपि कषायोदयान्तर्गतानां कषायरूपत्वात् । तेन यदुच्यते कैश्चिद् “योगपरिणामत्वे लेश्यानां “जोगा पयडिपएसं ठिइअणुभागं कसायओ कुणइ ” [ बन्धशतके गा० ९९ ] | इति वचनात् प्रकृति-प्रदेशबन्धहेतुत्वमेव स्यात्, न कर्मस्थितिहेतुत्वम्” [उत्तराध्ययनसूत्रबृहद्वृत्तौ पृ० ६५१] इति तदपि न समीचीनं | यथोक्तभावार्थापरिज्ञानानात् । अपि च, न लेश्याः स्थितिहेतवः, किन्तु कषायाः । लेश्यास्तु कषायोदयान्तर्गताः अनुभागहेतवः । अत एव च "स्थितिपाकविशेषस्तस्य भवति लेश्याविशेषेण ॥" [प्रशमरतौ ३७ ] इत्यत्र अनुभागप्रतिपत्यर्थं पाकग्रहणम् । एतच्च सुनिश्चितं कर्मप्रकृतिटीकादिषु । ततः सिद्धान्तपरिज्ञानमपि न सम्यक् तेषामस्ति । यदप्युक्तम् “कर्मनिष्यन्दो लेश्या, निष्यन्दरूपत्वे
For Private & Personal Use Only
चतुर्थः
प्रकाशः
श्लोकः
ર
।। ८२४ ।।
5
लेश्या
स्वरूपम्
10
15
www.jainelibrary.org