SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ ।। ८२३ ।। Jain Education Inte aaaaaaaa "लेश्या कृष्णादिद्रव्यसान्निध्यजनितो जीवपरिणामः । " इति भगवतीसूत्रे प्रथमे शतके प्रथम उद्देशके अभयदेवसूरिविरचितायां टीकायाम् । " कृष्णादिद्रव्यसाचिव्यजनितात्मपरिणामरूपां भावलेश्याम्" इति भगवतीसूत्रे प्रथमे शतके द्वितीये उद्देश के अभयदेवसूरिविरचितायां टीकायाम् । “आत्मनि कर्मपुद्गलानां लेशनात् संश्लेषणात् लेश्याः, योगपरिणामश्चैताः, योगनिरोधे लेश्यानामभावात्, योगश्च शरीरनामकर्मपरिणतिविशेषः” इति भगवतीसूत्रे प्रथमे शतके द्वितीय उद्देशके अभयदेवसूरिविरचितायां टीकायाम् । " कर्मणः सकाशाद्या लेश्या जीवपरिणतिः सा कर्मलेश्या भावलेश्येत्यर्थः, तामेव प्रतिपतति, द्रव्यतोऽवस्थितलेश्यत्वाद्देवानामिति" इति भगवतीसूत्रे चतुर्दशे शतके प्रथम उद्देशके अभयदेवसूरिविरचितायां टीकायाम् । " आत्मनः सम्बन्धिनीं, कर्मणो योग्या लेश्या कृष्णादिका कर्मणो वा लेश्या " लिश् लेषणे " [ पा० धा० ११७५ ] इति वचनात् सम्बन्धः कर्मलेश्या, तां न जानाति" इति भगवतीसूत्रे चतुर्दशे शतके नवमे उद्देशके अभयदेवसूरिविरचितायां टीकायाम्, “ अपरस्त्वाह- ननु कर्मोदयजनितानां नारकत्वादीनां भवत्विहोपन्यासः, लेश्यास्तु कस्यचित् कर्मण उदये भवन्तीत्येतन्न प्रसिद्धम्, तत् किमितीह तदुपन्यासः ? सत्यम्, किन्तु योगपरिणामो लेश्या, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एव, ततो | लेश्यानामपि तदुदयजन्यत्वं न विहन्यते । अन्ये तु मन्यन्ते कर्माष्टकोदयात् संसारस्थत्वा ऽसिद्धत्ववल्लेश्यावत्त्वमपि भावनीयमित्यलं विस्तरेण, तदर्थिना तु गन्धहस्तिवृत्तिरनुसर्तव्येति ” - इति मलधारि हेमचन्द्रसूरिविरचितायाम् अनुयोगद्वारसूत्रवृत्तौ सू० १२६ ॥ “ अथ लेश्येति कः शब्दार्थः ? उच्यते- लिप्यते श्लिष्यते आत्मा कर्मणा सह अनयेति लेश्या, कृष्णादिद्रव्यसाचिव्यादात्मनः परिणामविशेषः । उक्तं च- " कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्तते ॥” ] | अथ कानि कृष्णादीनि द्रव्याणि ! उच्यते- इह योगे सति लेश्या भवति, योगाभावे च न भवति, ततो योगेन For Private & Personal Use Only 10 15 ॥ ८२३ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy