________________
स्वोपज्ञवृत्तिविभूषितं
योगशास्त्रम्
॥ ८२२ ॥
Jain Education Inte
“ तृतीयः पीतलेश्यः । ४ ।२।” इति तत्त्वार्थसूत्रे । “ज्योतिष्कदेवनिकायस्तृतीयः इत्युक्तम् । पीता लेश्या यस्यासौ पीत| लेश्यः । इह च द्रव्यलेश्या शरीरवर्णः प्रतिनियम्यते, नाध्यवसायविशेषः, लेश्याः षडपीष्यन्ते देवानां प्रतिनिकायमिति" इति | सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रस्य वृत्तौ ।
“ पीतान्तलेश्याः । ४ । ७ ।” इति तत्त्वार्थसूत्रे । “पीता अन्ते यासां लेश्यानां ताः पीतान्ताः कृष्ण-नील कापोत- तैजस्यः । ३२ पीतान्ता लेश्या येषां ते पीतान्तलेश्याः पूर्वयोर्निकाययोर्देवा भवन्ति । शरीरवर्णमात्रत्वाद् द्रव्यलेश्या एताः, भावलेश्यास्तु पडपि भवेयुरिति" इति सिद्धसेनगणिविरचितायां तत्त्वार्थसूत्रस्य वृत्तौ ।
“लिश्यते प्राणी कर्मणा यया सा लेश्या । यदाह-'श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः । ' [प्रशमरतौ ३७]। तथ "कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः। स्फटिकस्येव तत्रायं लेश्याशब्दः प्रयुज्यते ॥ " [ ] इति । इयं च | शरीरनामकर्मपरिणतिरूपा योगपरिणतिरूपत्वात्, योगस्य च शरीरनामकर्मपरिणतिविशेषत्वात्, यत उक्तं प्रज्ञापनावृत्तिकृता
"योग परिणामो लेश्या । कथं पुनर्योग परिणामो लेश्या ! यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्य अन्तर्मुहूर्ते शेषे योगनिरोधं करोति ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते 'योगपरिणामो लेश्या' इति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तम् - " कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् " ] इति । तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः १, तथा औदारिक-वैक्रिया -ऽऽहारक शरीरव्यापाराहृतवाग्द्रव्यसमूह साचिव्यात् जीवव्यापारो यः स वाग्योगः २, तथा औदारिकादि शरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्या जीवव्यापारो यः स मनोयोग इति ३ । ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपि " [ हारिभद्री प्रज्ञापनावृत्तिः पृ० ११०-१११] इति । अन्ये तु व्याचक्षते - " कर्मनिस्यन्दो लेश्येति । सा च द्रव्यभावभेदाद् द्विधा । तत्र द्रव्यलेश्या कृष्णादिद्रव्याण्येव, भावलेश्या तु तज्जन्यो जीवपरिणामः” [ उत्तराध्ययनसूत्र बृहद्वृत्तौ पृ० ६५१ ] इति ” इति अभयदेवसूरिविरचितायां स्थानाङ्गसूत्रटीकायाम् पृ० ३१-३२ ॥
For Private & Personal Use Only
चतुर्थः
प्रकाशः
श्लोक:
४४
॥ ८२२ ॥
05
लेश्या
स्वरूपम्
15
www.jainelibrary.org.