________________
॥ ८२१ ॥
Jain Education Int
aarale
dialeeel
च। .......... भावलेश्या उदयो विपाकः, इह तूपचारादुदयजनितपरिणामो भणितः षण्णां लेश्यानां जीवेषु ” इति वादिवेतालश्रीशान्तिसूरिविरचितायामुत्तराध्ययनटीकायां लेश्याध्ययने चतुस्त्रिंशत्तमे पृ० ६५०-६५१ ॥
“लेसासु पुग्वोववण्णा विसुद्धलेसा। कहं ? जेण तेसि अप्पसत्थकम्मले साणं किण्ह-नील-काऊणं असुभो तिव्वाणुभागोदओं भवावेक्खो। जति वि जीवविपाकि लेस्साकम्मं तहा वि 'जोगपरिणामो लेस्सा' इति विग्गहे वि कम्मतियकायजोगो अत्थि ति धुवोदयत्तं, धुवोदयत्तातो य भवावेक्खो इत्युक्तम् । तस्स वाणुभावो पुग्वोववण्णरहिं बहुं निज्जरिओ ति तेण विसुद्धलेस्सा" इति आचार्यश्री हरिभद्रसूरिविरचितायां प्रज्ञापनावृत्तौ पृ० १०७-१०८ ।।
“गति-कषाय-लिङ्ग-मिथ्यादर्शना-ज्ञानाऽसंयता- सिद्धत्व लेश्याश्चतुश्चतुस्त्र्येकैकैकषड्भेदाः || २ | ६ ||" इति तत्त्वार्थसूत्रे । " लेश्याः षड्भेदाः- कृष्णलेश्या, नीललेश्या, कापोतलेइया, तेजोलेश्या, पद्मलेश्या, शुक्ललेश्या ।” इति तत्त्वार्थभाष्ये ।
" ननु च कर्मप्रकृतिभेदानां द्वाविंशत्युत्तरशतं प्रकृतिगणनया प्रसिद्धमाम्नाये । न च तत्र लेश्याः पठिताः, तत् कथम् ? उच्यते नामकर्मणि मनः पर्याप्तिर्नाम पर्याप्तिश्च करणविशेषो येन मनोयोग्यान् पुद्गलानादाय चिन्तयति । ते च मन्यमानाः पुद्गलाः सह करणेन मनोयोग उच्यते । मनोयोगपरिणामश्च लेश्याः । ताश्च नोपात्ताः सूत्रभाष्ययोरिहोत्तरोत्तरभेदत्वादिति । | अपरे मन्यन्ते - कर्माष्टकोदयादसिद्धत्व एव लेश्या ग्राह्याः । तदेतत् सर्व सूत्रकारेण लाघवमिच्छता लेशत उपात्तं न साक्षात् " इति तत्वार्थसूत्रस्य गन्धह स्तिवृत्तित्वेनाभिमतायां सिद्धसेनगणिविरचितायां वृत्तौ २६ ॥
'तत्र द्रव्यलेश्याः | “ लिश्यन्त इति लेश्या मनोयोगावष्टम्भजनितपरिणामः, आत्मना सह लिश्यते एकीभवतीत्यर्थः कृष्णादिवर्णमात्रम् । भावलेश्यास्तु कृष्णादिवर्णद्रव्यावष्टम्भजनिताः परिणामाः कर्मबन्धनस्थितेर्विधातारः श्लेषद्रव्यवद् वर्णकस्य | चित्राद्यर्पितस्येति । तत्राविशुद्धोत्पन्न [त्व ? ]मेव कृष्णवर्णः, तत्सम्बद्धद्रव्यावष्टम्भादविशुद्धपरिणाम उपजायमानः कृष्णलेश्येति व्यपदिश्यते " इति तत्त्वार्थसूत्रस्य सिद्धसेनगणिविरचितायां वृत्तौ २६ ।
For Private & Personal Use Only
10
15 ।। ८२१ ॥
www.jainelibrary.org