________________
स्वोपज्ञ
वृतिविभूषितं योगशास्त्रम्
।। ८२० ॥
Jain Education Inte
Seedenenerala
“इह च कर्मद्रव्यश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेइया, यदुक्तं प्रज्ञापनावृत्तिकृता“योगपरिणामो लेइया, कथं पुनर्योगपरिणामो लेश्या ! यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्यान्तर्मुहूर्ते शेषे योगनिरोधं करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते - योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं " कर्म हि कार्मणस्य कारणमन्येषां च शरीराणाम् " [ ] इति, तस्मादौ दारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथैौदारिकवैक्रियाहार कशरीरव्यापाराहृतवाग्द्रव्यसमूहसाचिव्याजीकव्यपारो यः स वाग्योगः, तथैवौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूह साचिव्याजीवव्यापारो यः स मनोयोग इति, ततौ यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतिर्योग उच्यते तथैव लेश्याऽपि " [ हारिभद्री प्रज्ञापनावृत्तिः पृ० ११०-१११] इति । गुरवस्तु व्याचक्षते - कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम्-- “ ताः कृष्णनीलकापोततैजसी पद्मशुक्लनामानः । श्लेष इव वर्णबन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥ १ ॥ " [प्रशमरतौ ३८ ] इति । योगपरिणामत्वे तु लेश्यानां "योगा पयडिपएसं ठिइअणुभागं कसायओ | कुणति " [वन्ध शतक गा० ९९] त्ति वचनात् प्रकृतिप्रदेशबन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु यावत् | कषायोदयस्तावत्तन्निस्यन्दस्यापि सद्भावात् कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एवोपशान्त क्षीणमोहयोः कर्मबन्धसद्भावेऽपि न | स्थितिसम्भवः, यदुक्तम् - " तं पढमसमये बद्धं बीयसमये वेइयं ततियसमए निज्जिण्णं ” [ ]ति । आह-यदि कर्मनिस्यन्दो लेश्या तदा समुच्छिन्नक्रियं शुक्लध्यानं ध्यायतः कर्मचतुष्टयसद्भावे तन्निस्यन्दसम्भवेन कथं न लेश्यासद्भावः १ । उच्यते, नायं | नियमो यदुत निस्यन्दवतो निस्यन्देन सदा भाव्यं, कदाचिन्निस्यन्दवत्स्वपि वस्तुषु तथाविधावस्थायां तदभावदर्शनात् । यश्चोक्तम्अयोगिनो योगपरिणामाभावे लेश्या परिणामाभाव इति निश्चिनुमः - योगपरिणाम एव लेश्येति, तदप्यसाधकं यतो रश्म्यादयः सूर्याद्यभावे न भवन्ति, न च ते तद्रूषा एव, यत उक्तम् - " यच्च चन्द्रप्रभाद्यत्र शातं तज्ज्ञातमात्रकम् । प्रभा पुनलरूपा यत्तद्धम नोपपद्यते ॥ १ ॥ " [ ] । अन्ये त्वाहुः - कार्मणशरीरवत् पृथगेव कर्माष्टकात् कर्मवर्गणानिष्पन्नानि कर्मलेश्याद्रव्याणीति, तत्त्वं पुनः केवलिनो विदन्ति । इत्युक्ता द्रव्यलेश्या । भावलेश्यामाह - द्विविधा च भावलेश्या- 'विशुद्धलेश्या' अकलुषद्रव्य| संपर्क जात्म परिणामरूपा तथैव 'अविशुद्धा' इत्यविशुद्धलेश्या । तत्र द्विविधा विशुद्धलेश्या
For Private & Personal Use Only
कषायोपशमजा कषायक्षयजा
aleleases
चतुर्थः
प्रकाशः
श्लोकः ४४
।। ८२० ।।
5
लेश्या
स्वरूपम्
10
15
20
ww.jainelibrary.org