SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ ॥ ८१९ ॥ Jain Education Inte Badaledaeo तत् तस्मात् अवश्यं निश्चयेन मनः शुद्धिः कर्त्तव्या सिद्धिं मोक्षमभिलषता । आवश्यकत्वे हेतुमाह - किमन्यैः कायदण्डनैः ? | कायो दण्ड्यत एभिरिति कायदण्डनास्तैः कैः ? तपः श्रुत-यममायैः, तपोऽनशनादि, श्रुतमागमः, यमा महाव्रतानि । प्रायग्रहणाद् नियमादयो गृह्यन्ते । अत्रेदमनुयोक्तव्यम्–केयं मनसः शुद्धिः ? लेश्याविशुद्धया मनसो निर्मलत्वम् । काः पुनर्लेश्याः १ कृष्ण - नील- कापोत| तेज:-पद्म-शुक्लवर्णद्रव्यसाचिव्यादात्मनस्तदनुरूपः परिणामः, यदाह “ कृष्णादिद्रव्यसाचिव्यात् परिणामो य आत्मनः । स्फटिकस्येव तत्रायं लेश्याशब्दः प्रवर्त्तते ॥ १ ॥ " [ ] १ लेश्यास्वरूपविषये विभिन्ना अभिप्रायाः शास्त्रेषु दृश्यन्ते । तत्रादौ श्वेताम्बरग्रन्थानुसारेण लेश्यास्वरूपमुपदर्श्यते ""लिश संश्लेषणे' [पा० धा० १५७५ ] संलिप्यते आत्मा तैस्तैः परिणामान्तरैः, यथा श्लेषेण वर्णसंबन्धो भवति एवं लेश्याभिरात्मनि कर्माणि संलिप्यन्ते, योगपरिणामों लेस्या, जम्हा अयोगिकेवली अलेस्सो । तत्थ कण्हलेस्सा इति द्विपदमिदं वचनं, कृष्णों द्रव्यपर्यायो वर्णः, लेश्या योग परिणामः, कृष्णद्रव्यसाचिव्याद्यः योगपरिणामः स कृष्णलेश्या, एवं नीललेश्यादीयाओ वि विभासितव्वाओं । अण्णे भणति - कृष्णवर्ण इव लेश्या कृष्णलेश्या एवं जाव सुक्कलेस्सा, नवरं पसत्थतरो परिणामो । " इति | आवश्यकसूत्रस्य प्रतिक्रमणाध्ययने आवश्यकचूर्णौ पृ. ११२-११३ । [ ]। "कृष्णादिद्रव्यसाचिव्यात्, परिणामो य आत्मनः। स्फटिकस्येव तत्रायं, लेश्याशब्दः प्रयुज्यते ॥ १ ॥ कृष्णादिद्रव्याणि तु सकलप्रकृतिनिष्यन्दभूतानि ” - इति आवश्यकसूत्रस्य प्रतिक्रमणाध्ययने हारिभद्रयां वृत्तौ पृ. ६४५ । For Private & Personal Use Only 10 ॥ ८१९ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy