________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ८१८ ॥
Jain Education
idealere
मनः शुद्धिमविभ्राणा अधारयन्तो ये मुक्तये मुक्तिनिमित्तं तपस्यन्ति तपः क्लेशमनुभवन्ति, ते दुर्ग्रहग्रहिलाः संनिहितां नावं परित्यज्य महार्णवं भुजाभ्यां तरीतुमिच्छन्ति । यथा नावमन्तरेण महार्णवो भुजाभ्यां दुस्तरः तथा मनः शुद्धिमन्तरेण तपसा मुक्तिर्दुष्प्रापा ॥ ४२ ॥
ये 'ध्यानं तपः सहितं मुक्तिदम्' इति वदन्तो मनः शुद्धिमुपेक्षन्ते, 'ध्यानमेव तु कर्मक्षयकारणम्' इति प्रति
तु पन्नास्तान् प्रत्याह-
तपस्विनो मनःशुद्धिविनाभूतस्य सर्वथा । ध्यानं खलु मुधा चक्षुर्विकलस्येव दर्पणः ॥ ४३ ॥
तपखिनोऽपि ध्यानं खलु निश्चयेन सुधा । किंविशिष्टस्य ! सर्वथा मनः शुद्धिविना भूतस्य लेशेनापि मनःशुद्धि| रहितस्य । यद्यपि मनःशुद्धिरहितानामपि तपोध्यानवलेन नवमग्रैवेयकं यावद् गतिः श्रूयते तथापि तत् प्रायिकम्, न च तत् फलत्वेन विवक्षितम्, मोक्षस्यैव फलरूपत्वात् । अतो ध्यानं मुधा । यथा दर्पणो रूपनिरूपणकारणमपि चक्षुर्विकलस्य सुधा तथा ध्यानमपीति भावः ॥ ४३ ॥
उपसंहरति
तदवश्यं मनः शुद्धिः कर्तव्या सिद्धिमिच्छता ।
तपः श्रुत-यमप्रायैः किमन्यैः कायदण्डनैः ॥ ४४ ॥
For Private & Personal Use Only
adalaleladeeeeeeeeeeeeeeeeeeee
चतुर्थः
प्रकाशः
श्लोकौ
४३-४४ ॥ ८१८ ॥
मनः शुद्धौ
लाभाः
10
www.jainelibrary.org