SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ akoleka k एकैव यमनियमादिरहितापि मनःशुद्धिः दीपिकेव दीपिका, किंविशिष्टा ? अनिर्वाणा अविध्याता, निर्वाणस्य मोक्षस्य पन्था निर्वाणपथस्तं दर्शयतीत्येवंशीला निर्वाणपथदर्शिनी, 'मुमुक्षोः' इति शेषः, समाम्नाता पारम्पर्येण कथिता, कैः ? मनीषिभिः पूर्वाचायः, यदाह " ज्ञाने ध्याने दाने माने मौने सदोद्यतो भवतु । यदि निर्मलं न चित्तं तदा हुतं भस्मनि समग्रम् ॥ १॥" ४० ॥ [ ] मनःशुद्धरन्वय-व्यतिरेकाम्यां गुणान्तरदर्शनेनोपदेशमाह-- सत्यां हि मनसः शुद्धौ सन्त्यसन्तोऽपि यद्गुणाः। सन्तोऽप्यसत्यां नो सन्ति सैव कार्या बुधैस्ततः ॥४१॥ यद् यस्मात् सत्यां विद्यमानायां मनसः शुद्धावसन्तोऽप्यविद्यमाना अपि सन्तीव तत्फलसद्भावाद् गुणाः क्षान्त्यादयः। सन्तोऽपि विद्यमाना अपि गुणा असत्यां मनसः शुद्धौ नो सन्ति न सन्तीव, तत्कलाभावात् । ततः कारणादन्वय-व्यति|रेकाभ्यां निश्चितफला सैव मनःशुद्धिः कार्या बुधैर्विवेकिभिः ॥ ४१ ॥ ये तु 'आस्तामेपा मनःशुद्धिः, तपोबलेनैव मुक्तिं वयं साधयिष्यामः' इति प्रतिपद्यन्ते तान् प्रत्याह-- मनःशुद्धिमबिभ्राणा ये तपस्यन्ति मुक्तये । त्यक्त्वा नावं भुजाभ्यां ते तितीर्षन्ति महार्णवम् ॥ ४२ ॥ eSHEREDIBIDIOBADISIBIDIERROREHRE ॥८१७॥ Jain Education Interes For Private & Personal Use Only 22w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy