________________
स्वोपशवृत्तिविभूषितं
योगशास्त्रम्
॥ ८१६ ॥
Jain Education Intem
मनसो रोधो विषयेभ्यो निवारणं तस्मिन् सति निरुध्यन्ते प्रतिबाध्यन्ते आश्रवनिरोधात् कर्माण्यपि ज्ञानावरणादीन्यतिप्रचलानि समन्ततः सामस्त्येन । मनोरोवायत्तत्वात् कर्मरोधस्य । प्रकृते योजयति-- अनिरुद्धमनकस्य पुंसस्तान्यपि कर्माणि प्रसरन्ति विवर्द्धन्ते मनःप्रसराधीनत्वात् कर्मप्रसरस्य ॥ ३८ ॥
तदेतन्निश्चित्य मनो नियन्त्रणाय यत्नः कार्य इत्येतदाह-मनःकपिरयं विश्वपरिभ्रमणलम्पटः । नियन्त्रणीयो यत्नेन मुक्तिमिच्छुभिरात्मनः ॥ ३९ ॥
मनो भावमन एव कपिर्मर्कटः । अयमिति सर्वेषां स्वसंवेदनसिद्धः । कपित्वंरूपणे साधर्म्यमाह – विश्वस्मिन् | जगति परिभ्रमणमन्यान्य विषयग्रहरूपमनवस्थानं तत्र लम्पटो लोलुपस्तदेवंविधो मनःकपिनियन्त्रणीयो निरोद्धव्यः चापलं परित्याज्योचिते विषये परिष्ठाप्यः । यत्नेन तत्त्वाभ्यासरूपेण । किं कुर्वद्भिः ? मुक्ति निर्मोक्षमिच्छन्तीत्येवंशीलास्तैरात्मनः स्वस्य । मनश्चापलनिरोधसाध्या हि मुक्तिरिति ॥ ३९ ॥ इदानीमिन्द्रियजयहेतुं मनः शुद्धिं प्रस्तौति-
दीपिका खल्वनिर्वाणा निर्वाणपथदर्शिनी । एकैव मनसः शुद्धिः समाम्नाता मनीषिभिः ॥ ४० ॥
१ प्ररूपणे हे । रूपेण - मु. ॥ २ परिस्थाप्यः - मु. ॥। ३ मुक्ति मोक्ष०- मु. शां. ॥
For Private & Personal Use Only
addeeeee
चतुर्थः
प्रकाशः
श्लोकौ
३९-४० ।। ८१६ ॥
5
मनः शुद्धौ
लाभाः
10
w.jainelibrary.org