SearchBrowseAboutContactDonate
Page Preview
Page 503
Loading...
Download File
Download File
Page Text
________________ चतुर्थः कायमा मूलगुणा नियमा उत्तरगुणास्तैरुपलक्षणत्वाद् वृद्धसेवादिभिश्च यः कायक्लेशः स नृणां पुरुषाणां वृथा। सा च मनःशुद्धिः स्वोपज्ञ केपाश्चित् स्वभावत एव भवति मरुदेव्यादीनाम् । केषाञ्चित् तु यम-नियमाद्युपायबलाद् नियन्त्रिते मनसि भवति ॥ ३४ ॥ वृत्ति प्रकाशः विभूषितं ___ अनियन्त्रितं मनो यत् करोति तदाह-- श्लोको योगशास्त्रम् मनःक्षपाचरो भ्राम्यन्नपशङ्क निरङ्कुशः । ३५-३६ ॥ ८१४॥ प्रपातयति संसारावर्तगर्ते जगत्त्रयीम् ॥ ३५ ॥ का॥८१४॥ ___इह द्विविधं मनः-द्रव्यमनो भावमनश्च । तत्र द्रव्यमनो विशिष्टाकारपरिणताः पुद्गलाः। भावमनस्तु तद्र्व्योपाधिः संकल्पात्मक आत्मपरीणामः । मन एव संकल्परूपं क्षपाचरो राक्षसः, अविषयेऽपि प्रवृत्तिशीलत्वात , भ्राम्यन् तत्र तत्र विषये अनियन्त्रिते स्थैर्यमनवलम्बमानः। कथं भ्राम्यन् ? अपशकं निर्भयं यथा भवति । तदपि कुतः ? निर्गतस्तत्त्वभावनादिनिवारकत्वात् अङ्कशो यस्मात् स तथा। प्रपातयति प्रकर्षेण पातयति संसार एवाऽऽवर्त्तप्रधानो गर्तस्तत्र जगत्त्रयीमिति, न स कश्चिद् दोषाः जन्तुर्जगत्त्रयेऽप्यस्ति, यो निरङ्कशेन मनसा संसारावर्त्तगर्ने न पात्यते। जगत्त्रयगतानां जन्तूनां संसारावर्तगर्ते पातनाद् जगत्त्रयीं पातयतीति उपचारादुक्तम् ॥ ३५ ॥ ____ पुनरनियन्त्रिते मनसि दोषामाह तप्यमानांस्तपो मुक्तौ गन्तुकामान् शरीरिणः । वात्येव तरलं चेतः क्षिपत्यन्यत्र कुत्रचित् ॥ ३६॥ 04iainelibrary.org Jain Education Intem
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy