SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ स्वोपक्ष चतुर्थः वृत्ति विभूषितं पोगशास्त्रम् ॥८१२॥ इन्द्रियदोषानभिधाय तज्जयोपदेशमाहतदिन्द्रियजयं कुर्याद् मनःशुद्धया महामतिः । प्रकाशः यां विना यमनियमैः कायक्लेशो वृथा नृणाम् ॥ ३४ ॥ श्लोकः ३४ यस्मादेवंविधानार्थसार्थसमर्थकानीन्द्रियाणि तत् तस्मादिन्द्रियाणां भावेन्द्रियाणां जयं कुर्यात् । द्विविधानि हीन्द्रियाणिद्रव्येन्द्रियाणि भावेन्द्रियाणि च । तत्र द्रव्येन्द्रियाणि स्पर्शेन्द्रियाद्याकारपरिणतानि पुद्गलद्रव्याणि, भावेन्द्रियाणि स्पर्शादिष्व 215 भिलाषोपायरूपाणि, तेषां जयो लौल्यपरिहारेणावस्थानम् । इन्द्रियजयो__ अत्रान्तरश्लोकाःअनिर्जितेन्द्रियग्रामो यतो दुःखैः प्रवाध्यते । तस्माज्जयेदिन्द्रियाणि सर्वदुःखविमुक्तये ॥ १ ॥ वर्णनम् न चेन्द्रियाणां विजयः सर्वथैवाप्रवर्तनम् । रागद्वेषविमुक्त्या तु प्रवृत्तिरपि तज्जयः ॥ २ ॥ अशक्यो विषयोऽस्पष्टुमिन्द्रियैः स्वसमीपगः । रागद्वेषौ पुनस्तत्र मतिमान् परिवर्जयेत ॥ ३॥ हताहतानीन्द्रियाणि सदा संयमयोगिनाम् । अहतानि हितार्थेषु हतान्यहितवस्तुषु ॥ ४ ॥ जितान्यक्षाणि मोक्षाय संसारायाजितानि तु । तदेतदन्तरं ज्ञात्वा यद् युक्तं तत् समाचर ॥ ५ ॥ स्पर्शे मृदौ च तुल्यादेरुपलादेश्च कर्कशे। भव रत्यरती हित्वा जेता स्पर्शनमिन्द्रियम् ॥ ६ ॥ १ स्पर्शादिष्वपि अभिः-शां. ॥ २ प्रवृत्तिरिति तज्जयः-शां.॥ ३ हत्वा-शां.।। पायादि Jain Education Inter For Private & Personal use only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy