SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ ॥ ८११ ॥ HIREMEDIESERENCERENCHEMERICHRISHCHEHRIMARCHRIST हरिणो हारिणीं गीतिमाकर्णयितुमुधुरः । आकर्णाकृष्टचापस्य याति व्याधस्य वेध्यताम् ॥ ३२ ॥ स्पष्टाः। नवरं वशा हस्तिनी, गलो रज्जुबद्धो लोहकण्टकः, मीनान् हन्तीति मैनिको धीवरः, कर्णताल एव तलचपेटस्तेनाघातः, गीतिर्गीतम् ॥ २८ ॥ २९ ॥ ३० ॥ ३१ ॥ ३२॥ उपसंहरति एवं विषय एकैकः पञ्चत्वाय निषेवितः । कथं हि युगपत् पञ्च पञ्चत्वाय भवन्ति न ? ॥ ३३ ॥ _ विषय इन्द्रियस्य गोचरः, इन्द्रियप्रकरणेऽपि यद् विषयस्य दोषदर्शनं तद् विषयद्वारेणैवेन्द्रियाणां दोषजनकत्वमिति दर्शनार्थम् । एकैको विषयो गजादीनां पञ्चत्वाय मरणाय। यस्तु पुमान् सर्वेषु विषयेष्वासक्तस्तं प्रत्याह-कथं हि युगपत् | पश्चापि विषयाः सेविताः पञ्चत्वाय न भवन्ति ? अपि तु भवन्त्येवेति। यदाह-- " पञ्चसु सक्ताः पञ्च विनष्टा यत्रागृहीतपरमार्थाः । एकः पञ्चसु सक्तः प्रयाति भस्मान्ततां मूढः ॥१॥" [ ]॥ ३३॥ १०मुद्धरः-खं. संपू.॥ CURREARRIERIENCINEHEREBERRHEIGHBHISHEHRSHEK ॥८११॥ Jain Education Intel For Private & Personal Use Only vw.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy