________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ८१० ॥
seeeeeeeee
Jain Education Interna
आ विरञ्चादा च कीटाद् ये केचिदिह जन्तवः । विमुच्यैकं वीतरागं ते सर्वेऽपीन्द्रियैर्जिताः ॥ १२ ॥ २७ ॥ एवं सामान्येनेन्द्रियदोषानभिधाय स्पर्शनादीन्द्रियाणां श्लोकपञ्चकेन दोषानाह -
वशास्पर्शसुखास्वादप्रसारितकरः करी । आलानबन्धनक्लेशमासादयति तत्क्षणात् ॥ २८ ॥ पयस्यगाधे विचरन गिलन् गलगतामिषम् । मैनिकस्य करे दीनो मीनः पतति निश्चितम् ॥ २९ ॥ निपतन् मत्तमातङ्गकपोले गन्धलोलुपः । कर्णतालतलाघाताद् मृत्युमाप्नोति षट्पदः ॥ ३० ॥ कनकच्छेदसंकाशशिखालोकविमोहितः । रभसेन पतन् दीपे शलभो लभते मृतिम् ॥ ३१ ॥
१ विरिञ्चा०-मु.॥
२ दोषमाह - शां. । दोषामाह-खं. ॥
For Private & Personal Use Only
aaaaaaaaaaaaa
चतुर्थः
प्रकाशः
श्लोकाः २८
२९-३०-३१
11 280 11
5
इन्द्रियदोषवर्णनम्
10
w.jainelibrary.org