SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ ॥८०९॥ RREENSHEREHCHEHCHEHCHEHCHHETRIEVE बन्धायेन्द्रियाणि चण्डप्रद्योतस्येव। वधाय मृत्यवे इन्द्रियाणि रावणस्येवेत्युक्तपूर्वम् । अत्रान्तरश्लोकाः-- इन्द्रियैः स्वार्थविवशैः कस्को नैव विडम्ब्यते । अपि विज्ञातशास्त्रार्थाश्चेष्टन्ते बालका इव ॥१॥ किमतोऽपि घृणास्थानमिन्द्रियाणां प्रकाश्यते । यद् बन्धौ बाहुलिनि भरतोऽप्यस्खमक्षिपत् ॥ २॥ जयो यद् बाहुबलिनि भरते च पराजयः । जिता-जितानां तत् सर्वमिन्द्रियाणां विजृम्भितम् ॥ ३॥ यच्छनाशस्त्रि युध्यन्ते चरमेऽपि भवे स्थिताः। दुरन्तानामिन्द्रियाणां महिम्नानेन लज्जिताः ॥ ४ ॥ दण्ड्यन्तां चण्डचरितैरिन्द्रियैः पशवो जनाः। शान्तमोहाः पूर्वविदो दण्ड्यन्ते यत् तदद्भतम् ॥ ५ ॥ जिता हृषीकैरत्यन्तं देव-दानव-मानवाः। जुगुप्सितानि कर्माणि ही ! तन्वन्ति तपस्विनः ॥ ६ ॥ अखाद्यान्यपि खादन्त्यपेयान्यपि पिबन्ति च । अगम्यान्यपि गच्छन्ति हपीकवशगा नराः ॥ ७ ॥ वेश्यानां नीचकर्माणि दास्यान्यपि च कुर्वते । कुल-शीलोज्झितास्त्यक्तकरुणैः करणैर्हताः ॥ ८॥ परद्रव्ये परस्त्रीषु मोहान्धमनसां नृणाम् । या प्रवृत्तिः सेन्द्रियाणामतन्त्राणां विजृम्भितम् ॥ ९॥ पाणि-पादेन्द्रियच्छेद-मरणानि शरीरिभिः । प्राप्यन्ते यद्वशात् तेम्यः करणेभ्यो नमो नमः ॥१०॥ विनयं ग्राहयन्त्यन्यान् ये स्वयं करणैर्जिताः। पिधाय पाणिना वक्त्रं तान् हसन्ति विवेकिनः ॥ ११ ॥ १ दृश्यतां प्र० ५८॥ २ दृश्यतां पृ० ३६५॥ ३ खादन्ति चाप्यपेयं पिबन्ति च। अगम्य चापि गच्छन्ति-यां.।। E Jain Education Internal बख nelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy