SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ ॥८०७॥ THEMERGICHHERHOICROREHICKETCHICHIHIGHERCISHMISHEHORE नीयते प्राप्यते । यथाऽदान्तो हयोऽपथगामित्वेन स्वमारोहमरण्ये नयति तथैवाजितैरिन्द्रियैर्जन्तुर्विविधापायबहले नरके नीयत इत्यर्थः ॥ २५ ।। कथमजितानीन्द्रियाणि नरकं नयन्तीत्याह-- इन्द्रियैर्विजितो जन्तुः कषायैरभिभूयते। वीरैः कृष्टेष्टकः पूर्वं वप्रः कैः कैर्न खण्डयते ॥२६॥ इन्द्रियाणि जेतुमशक्तोऽत एव तैर्विजितः, यान् जेतुमिन्द्रियजय उपदिश्यते तैरेव प्रत्युत कषायैरभिभूयते । कषाया| भिभूतश्च नरकं यातीति सुप्रसिद्धमेव । ननु यदीन्द्रियजयेऽशक्तो जन्तुः, तहीन्द्रियजनितैव बाधाऽस्तु, कोऽवसरः कषाय| बाधायाः? इत्याशङ्कामपनेतुं दृष्टान्तमाह--वीरैर्विक्रान्तैः कृष्टा इष्टका यस्मात् स कृष्टेष्टकः वप्रः प्राकारः, पूर्व प्रथमम् , है पश्चात् कैः कैरवीरैरपि एकैकेष्टकाशकलकर्षणेन न खण्ड्यते न खण्डशः क्रियते?। अयमर्थः-यथा वीरपुरुषपातितच्छिद्रः । | प्राकारः कर्मकरमायाणामपि गम्यो भवति तथैव वप्रप्रायः प्राणी वीरमायैरिन्द्रियैर्भग्नप्राय इतरपुरुषमायैः कषायैर्वाध्यते, हे इन्द्रियानुसारित्वात् कषायाणाम् ।। २६ ॥ 11८०७॥ ___१ ०मारोहकम०-मु.॥ २ खण्डशों नीयते-संपू. मु.॥ Jain Education Intematonal For Private & Personal Use Only ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy