________________
स्वोपक्ष
चतुर्थः
वृत्ति
विभूषितं योगशास्त्रम् ॥ ८०६॥
२४-२५ ॥८०६॥
यद्यपि तुल्ययोगितया कषायेन्द्रियजयौ मोक्षरूपत्वेनोक्ती, तथाप्यनयोः कषायजयः प्रधानम् , तद्धेतुस्तु इन्द्रियजयः, तदेवाह--
प्रकाशः विनेन्द्रियजयं नैव कषायाओतुमीश्वरः ।
श्लोकी हन्यते हैमनं जाड्यं न विना ज्वलितानलम् ॥ २४॥ ___ समकालसंभविनोरपि कषायजयेन्द्रियजययोः प्रदीप-प्रकाशयोरिवास्ति कार्य-कारणभावः, अत उक्तम्-इन्द्रियजयं विना न कषायजयः। हन्यते इत्यादिना दृष्टान्तः। हैमनजाड्यसदृशाः कषायाः, ज्वलितानलपायश्चेन्द्रियजयः। हेमन्ते भवं ।
इन्द्रियाणाहैमनम् , “ हेमन्ताद् वा तलुक् च" [सि० ६।३६१] इत्यनेनाऽणि तलोपे वृद्धौ च सिद्धम् ॥ २४ ॥
मजितत्वे इन्द्रियजयः कषायजयहेतुत्वेनोक्तः, अजितानां त्विन्द्रियाणां न कषायजयहेतुत्वम् , प्रत्युतापायहेतुत्वमेवेत्याह
दोषाः अदान्तैरिन्द्रियहयैश्चलैरपथगामिभिः।
आकृष्य नरकारण्ये जन्तुः सपदि नीयते ॥२५॥ इन्द्रियाण्येव हया अश्वा इन्द्रियहयाः, तैश्चलैरेकत्रानवस्थायिभिः प्रकृत्या, अदान्तैरजितैः सद्भिरपथगामिभिरुन्मार्ग-| चारिभिराकृष्य बलात्कारेण कृष्ठा जन्तुः प्राणी, नरक एवारण्यं विविधभीतिहेतुत्वाद् नरकारण्यं तस्मिन, सपदि तत्क्षणाद्का
HIRSHISHEHARISHMIRCHISHEKSHITISHHHHHHHINCIEN
Jain Education Inter 13
w.jainelibrary.org