SearchBrowseAboutContactDonate
Page Preview
Page 493
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ८०४ ॥ Jain Education Interna निवारयेत्' इति क्रियाया विशेषणम् । प्रसरन्तम्' इति लोभसागरस्य विशेषणम् । महामतिर्मुनिः । निवारणकारणमुपदिशति — संतोषसेतुबन्धेन, संतोषो लोभप्रतिपक्षभूतो मनोधर्मः, स एव सेतुबन्धो जलस्खलनार्थं पालीबन्धः, तेन प्रतिपक्षभूतेन संतोषेण लोभकषायं निरुन्ध्यादिति भावः । अत्रान्तरश्लोकाः- । यथा नृणां चक्रवर्ती सुराणां पाकशासनः । तथा गुणानां सर्वेषां संतोषः प्रवरो गुणः ॥ १ ॥ संतोषयुक्तस्य यतेरसंतुष्टस्य चक्रिणः । तुलया संमितो मन्ये प्रकर्षः सुख-दुःखयोः ॥ २ ॥ स्वाधीनं राज्यमुत्सृज्य संतोषामृततृष्णया । निस्सङ्गत्वं प्रपद्यन्ते तत्क्षणाञ्चक्रवर्त्तिनः ॥ ३॥ निवृत्तायां धनेच्छायां पार्श्वस्था एव संपदः अङ्गुल्या पिहिते कर्णे शब्दद्वैतं हि जृम्भते ॥ ४ ॥ संतोषसिद्धौ संसिद्धाः प्रतिवस्तु विरक्तयः । अक्ष्णोः पिधाने पिहितं ननु विश्वं चराचरम् ॥ ५ ॥ किमिन्द्रियाणां दमनैः किं कायपरिपीडनैः ९ । ननु संतोषमात्रेण मुक्तिश्रीर्मुखमीक्षते || ६ || जीवन्तोऽपि विमुक्तास्ते ये मुक्तिसुखशालिनः । किं वा विमुक्तेः शिरसि शृङ्गं किमपि वर्त्तते ? ॥ ७ ॥ किं राग-द्वेषसंकीर्णं किं वा विषयसंभवम् । येन संतोषजं सौख्यं हीयेत शिवसौख्यतः ? परप्रत्यायनासारैः किं वा शास्त्रसुभाषितैः । मीलिताक्षा विमृशन्तु संतोषावादजं सुखम् ॥ ९ ॥ ●रणकरणकारणमु० - शां. ॥ २० द्वैतं विजृम्भते - मु. ॥ २ शिवशर्मणः - शां. खं. हे ॥ For Private & Personal Use Only Teddeduceeeeeeeाबाब चतुर्थः प्रकाश: श्लोकः २२ ॥ ८०४ ॥ 5 लोभजयो पायः jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy