________________
11 203 11
Jain Education Intem
एकामिषामिलाषेण सारमेया इव द्रुतम् । सोदर्या अपि युध्यन्ते धनलेशजिघृक्षया ॥ ८ ॥ लोभाद् ग्रामादिसीमानमुद्दिश्य गतसौहृदाः । ग्राम्या नियुक्ता राजानो वैरायन्ते परस्परम् ॥ ९ ॥ हास-शोक-द्वेष- हर्षा नसतोऽप्यात्मनि स्फुटम् । स्वामिनोऽग्रे लोभवन्तो नाटयन्ति नटा इव ॥ १० ॥ आरभ्यते पूरयितुं लोभगर्तो यथा यथा । तथा तथा महच्चित्रं मुहुरेष विवर्धते ॥ ११ ॥ अपि नामैष पूर्येत पयोभिः पयसां पतिः । न तु त्रैलोक्यराज्येऽपि प्राप्ते लोभः प्रपूर्यते ॥ १२ ॥ अनन्ता भोजना - SSच्छाद - विषय - द्रव्यसंचयाः । भुक्तास्तथापि लोभस्य नांशोऽपि परिपूर्यते ॥ १३ ॥ लोभस्त्यक्तो यदि तदा तपोभिरफलैरलम् । लोभस्त्यक्तो न चेत् तर्हि तपोभिरफलैरलम् ॥ १४ ॥ मृदित्वा शास्त्रसर्वस्वं मयैतदवधारितम् । लोभस्यैकस्य हानाय प्रयतेत महामतिः ॥ १५ ॥ १९ ॥ २० ॥ २१ ॥
लोभस्वरूपं निरूप्य तज्जयोपायमुपदिशति-
लोभसागरमुद्वेलमतिवेलं महामतिः । संतोषसेतुबन्धेन प्रसरन्तं निवारयेत् ॥ २२ ॥
लोभ एवाप्राप्तपरतीरत्वेन सागरस्तम्, उद्वेलमुद्गतवेलं तत्तदुत्कलिकावन्येन विवृद्धोच्छ्रायम्, अतिवेलं भृशम्,
१ ग्रामाद्रिसी० - मु. ॥
२ ०प्तपरपारत्वेन - संपू. ॥ तपरत्वेन - मु. ॥
For Private & Personal Use Only
एतच्च
eeeeeee
10
॥ ८०३ ॥
wjainelibrary.org