SearchBrowseAboutContactDonate
Page Preview
Page 491
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् चतुर्थः प्रकाशः श्लोकाः १९-२०-२१ ॥ ८०२॥ ॥८०२ ॥ | 5 कोटीश्वरो नरेन्द्रत्वं नरेन्द्रश्चक्रवर्तिताम् । चक्रवर्ती च देवत्वं देवोऽपीन्द्रत्वमिच्छति ॥२०॥ इन्द्रत्वेऽपि हि संप्राप्ते यदिच्छा न निवर्तते।। मूले लघीयांस्तल्लोभः शराव इव वर्धते ॥२१॥ स्पष्टम् । अत्रान्तरश्लोकाःहिंसेव सर्वपापानां मिथ्यात्वमिव कर्मणाम् । राजयक्ष्मेव रोगाणां लोभः सर्वागसां गुरुः॥१॥ अहो ! लोभस्य साम्राज्यमेकच्छत्रं महीतले । तरवोऽपि निधि प्राप्य पादैः पच्छादयन्ति यत् ॥२॥ अपि द्रविणलोभेन ते द्वि-त्रि-चतुरिन्द्रियाः । स्वकीयान्यधितिष्ठन्ति प्रानिधानानि मूर्च्छया ॥३॥ भुजङ्ग-गृहगोधा-ऽऽखुमुख्याः पञ्चेन्द्रिया अपि । धनलोभेन लीयन्ते निधानस्थानभूमिषु ॥ ४ ॥ पिशाच-मुद्गल-प्रेत-भूत-यक्षादयो धनम् । स्वकीयं परकीयं वाऽप्यधितिष्ठन्ति लोभतः ॥५॥ भूषणोद्यान-वाप्यादौ मच्छितास्त्रिदशा अपि । च्युत्वा तत्रैव जायन्ते पृथ्वीकायादियोनिषु ॥ ६॥ प्राप्योपशान्तमोहत्वं क्रोधादिविजये सति । लोभांशमात्रदोषेण पतन्ति यतयोऽपि हि ॥ ७ ॥ १ शान्तक्रोधत्वं-खं.॥ INEMSHEREHEREHEREHEKCHHOMEHEKHERHOIKREKRISHCHOTE लोभदोष वर्णनम Jain Education Intem For Private & Personal Use Only 6w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy