SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ ॥८०१॥ SHREEHEHIGHERECHEHECHECHEENCHCHCHCHCHCHECHES इति निगदितमुग्रं कर्म कौटिल्यभाजामृजुपरिणतिभाजां चानवद्यं चरित्रम् । तदुभयमपि बुद्धया संस्पृशन् मुक्तिकामो निरुपममृजुभावं संश्रयेच्छुद्धबुद्धिः ॥ १३ ॥ १७ ॥ इदानीं लोभकषायस्वरूपमाह आकरः सर्वदोषाणां गुणग्रसनराक्षसः। कन्दो व्यसनवल्लीनां लोभः सर्वार्थवाधकः ॥ १८॥ आकरः खानिः सर्वदोषाणां प्राणातिपातादीनां 'लोहादीनामिव' इति गम्यते । गुणानां ज्ञानादीनां प्राणिनामिव यद् । आसनं कवलनं तत्र राक्षस इव राक्षसः। तथा कन्दो मूलाधोऽवयवः, कासाम् ? व्यसनवल्लीनाम् , व्यसनानि दुःखानि तान्येव | वल्लयस्तासाम्। लोभश्चतुर्थः कषायः। तस्य स्वरूपसंग्रहमाह-सर्वार्थबाधकः, सर्वेषामर्थ्यन्त इत्यर्था धर्मा-ऽर्थ-काम-मोक्षलक्षणास्तेषां बाधकः प्रतिकूलः । लोभस्य सर्वदोषाकरत्वं गुणघातकत्वं व्यसनहेतुस्वं सर्वपुरुषार्थघातकत्वं च प्रसिद्धमेव ॥१८॥ लोभस्य दुर्जयत्वं श्लोकत्रयेणाह-- धनहीनः शतमेकं सहस्रं शतवानपि । सहस्राधिपतिर्लक्षं कोटिं लक्षेश्वरोऽपि च ॥१९॥ १ श्चतुर्थकषायः-मु.॥ BHEHEHORSHIBHEHEHEHEREHEREHEREHEHEREHEREHCHHHHHHORE ॥८०१ ॥ Jain Education Interna For Private & Personal Use Only Pelainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy