SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ नभश्वरा भूरिभेदा वराका लावकादायः। बध्यन्ते माययाऽत्युग्रैः स्वल्पकग्रासगृध्नुभिः॥ १३ ॥ तदेवं सर्वलोकेऽपि परवञ्चकतापराः । स्वस्य धर्म सद्गतिं च नाशयन्तः स्ववश्चकाः ॥ १४ ॥ HIGHEREHEHREMEICHEHERERCHEREMEHCHEHREMICHERCHCHEMENT तथातिर्यग्जातेः परं बीजमपवर्गपुरार्गला। विश्वासद्रमदावाग्निर्माया हेया मनीषिभिः ॥ १५ ॥ मल्लिनाथः पूर्वभवे कृत्वा मायां तनीयसीम् । मायाशल्यमनुत्खाय स्त्रीत्वं माप जगत्पतिः ॥ १६ ॥ १६ ॥ इदानीं मायाजयाय तत्प्रतिपक्षभूतमार्जवमुपदिशन्नाह तदार्जवमहौषध्या जगदानन्दहेतुना। जयेज्जगद्रोहकरी मायां विषधरीमिव ॥१७॥ यतो माया एवंविधा तत् तस्माद् मायां विषधरीमिव जयेत् । माया-विषधर्योः साधर्म्यमाह-जगद्रोहकरीम् , जगतो है जङ्गमलोकस्य द्रोहोऽपकारस्तं करोतीत्येवंशीला जगद्रोहकरी, ताम् । केन जयेत् ? आर्जवमहौषध्या, आर्जवमकौटिल्यं तदेव ।। महानुभावा औषधिर्महौषधिस्तया। उभयोः साधर्म्यमाह- जगदानन्दहेतुना, जगतो जङ्गमलोकस्य यथायथं य आनन्दः कायारोग्यप्रभवः प्रीतिविशेपो वञ्चकत्वपरिहारेण कषायजयाद् मोक्षरूपश्च तस्य हेतुना कारणेन । Jain Education Interna For Private & Personal use only jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy