SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ स्वोपश वृत्ति चतुर्थः प्रकाशः श्लोकः १६ ॥ ७९८॥ विभूषितं योगशास्त्रम् ॥ ७९८ मायादोषवर्णनम् तिलकैर्मुद्रया मन्त्रैः क्षामतादर्शनेन च। अन्तः शून्या बहिः सारा वञ्चयन्ते द्विजा जनम् ॥ २॥ कूटाः कूटतुला-माना-ऽऽशुक्रिया-सातियोगतः। वञ्चयन्ते जनं मुग्धं मायामाजो वणिग्जनाः ॥ ३ ॥ जटा-मौण्ड्य-शिखा-भस्म-वल्क-नाग्न्यादिधारणैः। मुग्धं श्राद्ध गर्धयन्ते पाखण्डा हृदि नास्तिकाः॥४॥ अरक्ताभिभोव-हाव-लीला-गति-विलोकनैः। कामिनो रञ्जयन्तीभिर्वेश्याभिर्वञ्च्यते जगत् ॥ ५॥ प्रतार्य कूटैः शपथैः कृत्वा कूटकपर्दिकाम् । धनवन्तः प्रतार्यन्ते दुरोदरपरायणैः ॥ ६॥ दम्पती पितरः पुत्राः सोदाः सुहृदो निजाः। ईशा भृत्यास्तथान्येऽपि माययाऽन्योन्यवञ्चकाः ॥ ७ ॥ अर्थलुब्धा गतघृणा बन्दकारमलिम्लुचाः। अहर्निशं जागरूकाश्छलयन्ति प्रमादिनम् ॥ ८ ॥ कारवश्चान्त्यजाश्चैव खकर्मफलजीविनः। माययाऽलीकशपथैः कुर्वते साधुवचनम् ॥९॥ व्यन्तरादिकुयोनिस्था दृष्ट्वा प्रायः प्रमादिनः। क्रूरा छलैबहुविधै धन्ते मानवान् पशून ॥ १० ॥ मत्स्यादयो जलचराश्छलात् खापत्यभक्षकाः। बध्यन्ते धीवरैस्तेऽपि माययाऽऽनायपाणिभिः ॥ ११ ॥ नानोपायैZगयुभिर्वश्चनप्रवणैर्जडाः। निबध्यन्ते विनाश्यन्ते पाणिनः स्थलचारिणः ॥ १२ ॥ १०क्रियाकारियोगतः-मु.॥ दृश्यतां सूत्रकृताङ्गे पृ० १७६ पं. ४, पृ० १८१ पं. १। “उत्कुञ्चन-वचन-माया-निकृति-कूट-कपटादिभिः सहातिसम्प्रयोगो गाय॑म् [पृ० ३२९] ............. सातिशयेन द्रव्येणापरस्य हीनगुणस्य द्रव्यस्य संयोगः सातिः [[पृ० ३३१]" इति शीलाङ्काचार्यविरचितायां सूत्रकृताङ्गटीकायाम्॥ २ बन्दकारा मलिम्लुचाः-मु.॥ ३ “आनायस्तु मत्स्य जालम् ........" ॥९२९॥” इति अभिधानचिन्तामणी Menonal use only Jain Education Inter Coww.janentbrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy