________________
॥ ७९७॥
SHETCHEHREETISTERIENCHEMESHBHEEMETECHCHEHEHICKS
वञ्चनात्मकः परिणामः। तथा परशुः कुठारः, शीलं सुस्वभावता, तदेव शाखी, तस्य परशुरिव परशुः, छेदकत्वात् । तथा जन्मभूमिरुत्पत्तिस्थानम् , कासाम् ? अविद्यानां मिथ्याज्ञानानाम् । सा च दुर्गतेः कारणमिति प्रधानफलनिर्देशः ॥ १५ ॥ परवञ्चनार्थ प्रयुक्ताया मायायाः परमार्थतः स्ववचनमेव फलमित्याह
कौटिल्यपटवः पापा मायया बकवृत्तयः।
भुवनं वञ्चयमाना वञ्चयन्ते स्वमेव हि ॥ १६ ॥ मायया तृतीयकषायेण भुवनं जगद् वञ्चयमानाः प्रतारयन्तः स्वमेवात्मानमेव वश्चयन्ते, के ? पापाः पापकर्मकारिणः। पापकर्मनिवार्थमेव बकवृत्तयः, यथा बको मत्स्यादिवश्वनाथं मन्दं मन्दं विचेष्टते तथा तेऽपि जगद्वञ्चनार्थ तथा तथा चेष्टन्ते यथा बकसदृशा भवन्ति । ननु मायया जगद्वश्चनम् , तस्याश्च निवः, इति कुत इयन्तं भारं ते वोढुं समर्था इत्याहकौटिल्यपटवः कौटिल्ये पटवः, कौटिल्यपाटवरहितो हि न कदाचित् परं वञ्चयते, न वा कदाचिद् निह्नत इति । कौटिल्यपाटवे तु द्वयं भवति परवश्चनं वञ्चनाच्छादनं चेति ।
अत्रान्तरश्लोकाःकूटपाड्गुण्ययोगेन च्छलाद् विश्वस्तघातनात् । अर्थलोभाच राजानो वश्चयन्तेऽखिलं जगत् ॥१॥ १ इति-नास्ति शां. खं. हे.॥ २ अर्थलाभाच-खं. संपू.॥ ३ जनम्-मु. खं.॥
का ॥७९७॥
Jain Education Intel
For Private & Personal Use Only
Polww.jainelibrary.org