SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ तथा ॥७९५॥ " ग्रहणोद्ग्राहणनवकृतिविचारणार्थावधारणायेषु । बुद्धयङ्गविधिविकल्पेष्वनन्तपर्यायवृद्धेषु ॥ १॥ पूर्वपुरुषसिंहानां विज्ञानातिशयसागरमनन्तम् । श्रुत्वा सांप्रतपुरुषाः कथं स्वबुद्धया मदं यान्ति ? ॥२॥" [मशमरतौ ९१-९२ ] ॥ १३॥ मानस्य स्वरूपं भेदांश्च प्रतिपाद्य, इदानीं मानप्रतिपक्षभूतं मार्दवं मानजयोपायमुपदिशति, उत्सर्पयन् दोषशाखा गुणमूलान्यधो नयन् । उन्मूलनीयो मानद्रस्तन्मार्दवसारत्प्लवेः ॥ १४ ॥ मान एव म उन्नतिविशेषधारित्वेन। मान-द्रमयोः साधर्म्यमाह-उत्सर्पयन्नूल नयन् , दोषा एव प्रसरणशीलत्वेन । शाखा दोषशाखास्ताः, गुणा एव मूलानि, गुणमूलानि, तान्यधो नयन् न्यक्कुर्वन् । कैरुन्मूलनीयः १ मार्दवसरित्सवैः, मार्दवमेव सततवाहितया सरित् , तस्याः प्लवैः प्रसरैः। मदद्रुमो हि यथा यथा वर्धते तथा तथा गुणमूलानि तिरोदधाति, दोषशाखाश्च विस्तारयति। तदयं कुठारादिभिरुन्मूलयितुमशक्यो मार्दवभावनासरित्प्रवाहेण समूलमुन्मूलनीय इत्यर्थः।। १ ग्रहणोद्ग्राहनवकृति०-खं.॥ २ सततं-खं.॥ 10 ॥७९५॥ Jain Education Inte For Private & Personal use only 2 ww.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy