SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ ॥ ७९३॥ इदानीं मानस्य भेदानुपदर्शयंस्तत्फलमाह जातिलाभकुलैश्वर्यबलरूपतपःश्रुतैः। कुर्वन् मदं पुनस्तानि हीनानि लभते जनः ॥१३॥ जातिश्च लाभश्चेत्यादिद्वन्द्वः, तैर्मदमवलिप्तचित्ततां कुर्वन् , तान्येव जात्यादीनि जन्मान्तरे हीनानि लभते । अत्रान्तरश्लोकाःजातिभेदान् नैकविधानुत्तमा-ऽधम-मध्यमान् । दृष्टा को नाम कुर्वीत जातु जातिमदं सुधीः ॥ १॥ उत्तमा जातिमामोति हीनामामोति कर्मतः। तत्राशाश्वतिकी जाति को नामासाद्य माद्यतु ॥२॥ अन्तरायक्षयादेव लाभो भवति नान्यथा । ततश्च वस्तुतत्वज्ञो न लाभमदमुद्वहेत ॥३॥ परप्रसादशक्त्यादिभवे लाभे महत्यपि । न लाभमदमृच्छन्ति महात्मानः कथश्चन ॥४॥ अकुलीनानपि प्रेक्ष्य प्रज्ञाश्रीशीलशालिनः । न कर्तव्यः कुलमदो महाकुलभवैरपि ॥ ५॥ किं कुलेन कुशीलस्य सुशीलस्यापि तेन किम् । एवं विदन् कुलमदं विदध्याद् न विचक्षणः ॥६॥ श्रुत्वा त्रिभुवनैश्वर्यसंपदं वज्रधारिणः। पुर-ग्राम-धनादीनामैश्वर्यैः कीदृशो मदः ॥७॥ गुणोत्वलादपि भ्रमपद् दोषषम्तमपि श्रयेत् । कुशीलस्त्रीयदैश्वर्य न मदाय विवेकिनाम् ॥ ८॥ BHEREHMICHEMEIREMEHEHEREHEICHEREHEREHERDHEIREICHEMICHKHERIES ॥ ७९३ ॥ Jain Education Intel For Private & Personal use only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy