________________
स्वोपक्षवृत्तिविभूषितं पोगशास्त्रम्
चतुर्थ प्रकाशः श्लोकः १२ ॥७९२॥
॥७९२॥
मानदोष
मानकषायस्य स्वरूपमाह
विनय-श्रुत-शीलानां त्रिवर्गस्य च घातकः ।
विवेकलोचनं लुम्पन मानोऽन्धङ्करणो नृणाम् ॥१२॥ विनयश्च गुर्वादिषूपचारलक्षणः, श्रुतं च विद्या, शीलं च सुस्वभावता, तेषां घातकः। जात्यादिमदाध्मातो हि पिशाचकिमायो न गुर्वादीनां विनीतो भवति। अविनीतश्च गुरूनशुश्रूषमाणो न विद्यां प्रतिलभते । अत एव सर्वजनावज्ञाकारी स्वस्य दुःस्वभावतां प्रकटयति। न केवलं विनयादीनामेव घातको मानो यावत् त्रिवर्गस्य धर्मा-ऽर्थ-कामलक्षणस्य । मदावलिप्तस्य हि नेन्द्रियजयः, तदधीनश्च धर्मः कथं स्यात् ? अर्थोऽपि राजादिसेवापरायत्तवृत्तिर्मानस्तब्धस्य कथं स्यात् ? कामस्तु मार्दवमूल एव, तत् कथं मानस्तब्धे स्थाणाविव भवेत् ? किञ्च अनन्धोऽधः क्रियतेऽनेनेत्यन्धङ्करणो मानः। केषाम् ? नृणाम् । किं कुर्वन् ? लुम्पन् । किं तत् ? विवेकलोचनम् , विवेकः कृत्याकृत्यविचारणम् , स एव लोचन
" एकं हि चक्षुरमलं सहजो विवेकः" [ इति वचनात् । मानवतो हि वृद्धसेवामकुर्वाणस्य विवेकलोचनलोपनमवश्यंभावि, तस्मिंश्च सत्यन्धकरणत्वं मानस्य सुवचमेव ॥१२॥
१ ०धकरणो-शां. संपू.॥ २ “एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद् द्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः॥” इति सम्पूर्णः श्लोकः ।।
HEREHICHCHEREURNERISTICHEMERICHHETRIENTISTRICHCHCHEH
HEHEREHEHEREHEEREHEHREATRETCHEMEHEHEREMEMEEEEE
वर्णनम्
For Private & Personal Use Only
7
Jain Education Inten
ww.jainelibrary.org