________________
चतुर्थ
स्वोपक्ष
वृत्तिविभूषितं योगशास्त्रम्
॥ ७२०॥
।। ७९०॥
यदाह" अणथोवं वणथोवं अग्गीथोवं कसायथोवं च।
प्रकाशः न हु भे वीससियव्वं थोवं पि हु तं बहुं होई ॥ १॥" [ आवश्यकनियुक्तौ गा० १२०]
श्लोकः ११ श्रयणीया आश्रयितव्या एकैव क्षमा। न हि क्षमामन्तरेण क्रोधोपशमोपायो जगत्यस्ति, क्रोधफलसंपादनं तु वैरहेतुत्वेन प्रत्युत क्रोधवृद्धिहेतुः, न तु तत्पशमाय, इत्येकग्रहणम्। क्षमा विशिनष्टि- संयमारामसारणिः, संयम एव नवनवानां है। संयमस्थानतरूणामारोपहेतुत्वेन तद्वद्धिहेतुत्वेन चारामो विचित्रतरुसमूहात्मकः, तस्य सारणिः कुल्या संयमारामवृद्धिहेतुतया ।।
क्रोधोपपुष्पफलप्राप्तिहेतुतया च । क्षमा हि प्रशान्तवाहितारूपा चित्तपरिणतिः, सा सारणित्वेन रूपिता, नवनवप्रशमपरम्परा- शमोपायवाहरूपत्वात्
वर्णनम् अत्रान्तरश्लोकाःअपकारिजने कोपो निरोद्धं शक्यते कथम् ? । शक्यते सत्त्वमाहात्म्याद् यद्वा भावनयाऽनया ॥१॥ अङ्गीकृत्यात्मनः पापं यो मां बाधितुमिच्छति। स्वकर्मनिहतायास्मै कः कुप्येद् बालिशोऽपि सन् ॥ २ ॥ प्रकुष्याम्यपकारिभ्य इति चेदाशयस्तव । तत् किं न कुप्यसि स्वस्य कर्मणे दुःखहेतवे ॥३॥ १ ऋणस्तोकं व्रणस्तोकमग्निस्तोकं कषायस्तोकं च। न हु भवद्भिर्विश्वसितव्यम् , स्तोकमपि तद् बहु भवति ॥ २ संप्रदानं-मु.॥ ३ स्थानामारोपहेतुत्वेन-खं. संपू. ॥ ४ निहिता०-शां. हे ॥
Jain Education Inte
www.jainelibrary.org