________________
स्वोपज्ञ
वृत्तिविभूषितं
चतुर्थ प्रकाशः श्लोकः १० ॥ ७८८॥
योगशास्त्रम्
८८
तत्रेति तेषु कषायेषु क्रोधः प्रथमः कषाय उपतापयति शरीरमनसी इत्युपतापकः, तथा वैरस्य परस्परोपघातात्मनो . विरोधस्य सुभूम-परशुरामयोरिव कारणम् , तथा दुर्गतेनैरकलक्षणायास्तयोरिव वर्तनी मार्गः क्रोधः, तथा शमसुखस्य प्रशमानन्दस्यात्मनि प्रविशतोऽर्गलेवार्गला, तदुपरोधकारित्वात् । पुनः पुनः क्रोधग्रहणं तस्यातिदौष्टयज्ञापनार्थम् ॥ ९ ॥ | ख-परोपतापकारित्वेऽपि क्रोधस्य कृशानुदृष्टान्तेन स्वोपतापकत्वं समर्थयते,
उत्पद्यमानः प्रथमं दहत्येव स्वमाश्रयम् ।
क्रोधः कृशानुवत् पश्चादन्यं दहति वा न वा ॥१०॥ तथाविधकारणसंपाते उत्पद्यमानः क्रोधः कृशानुवत् स्वं स्वकीयमाश्रयं यत्र स उत्पद्यते तं नियमेन दहति, पश्चात है कृशानुवदेवान्यं दाह्यान्तरं दहति वा न वा, परस्य क्षमाशीलत्वादिना सान्द्रदुमादिवत् दग्धुमशक्यत्वात् । __ अत्रान्तरश्लोकाः
अर्जितं पूर्वकोट्या यद् वर्षेरष्टभिरूनया। तपस्तत् तत्क्षणादेव दहति क्रोधपावकः ॥ १॥ १ दृश्यतां पृ०२०३-२१०॥ २ " निविडं तु निरन्तरम् ॥१४४६॥ निबिरीसं घनं सान्द्रं नीरन्ध्र बहलं दृढं गाढमविरलं च" इति अभिधानचिन्तामणौ ॥ ३०मशक्तत्वात्-शां. खं. संपू.। ४ तुला- अज्जियं समीखल्लएहिं तव नियम-बंभमइएहिं। तं कदाणि पच्छ नाहिसि, छइिंतो सागपत्तेहिं ॥ २७१४॥ जं अज्जियं चरितं, देसूणाए वि पुवकोडीए। तं पि कसाइयमेत्तो, नासेइ के
नरो मुहुत्तेण ॥ २७१५॥ इति बृहत्कल्पभाष्ये ॥
दोषवर्णनम्
Jain Education Intel
For Private & Personal Use Only
Flww.jainelibrary.org