________________
॥७८७॥
उत्तरार्धेनामीषां फलदायकत्वमाह-ते संज्वलनादयो देवत्वादिफलदायकाः। तथाहि--संज्वलनाः क्रोधादयो देवगतिम् , प्रत्याख्यानावरणा मनुष्यगतिम् , अप्रत्यानावरणास्तिर्यग्गतिम् , अनन्तानुबन्धिनो नरकगतिं प्रयच्छन्तीति । एतेषां है। च संज्वलनादिभेदानां चतुर्णां कषायाणां स्पष्टदृष्टान्तकथनेन स्वरूपमुच्यते - जलराजि-रेणुराजि-पृथिवीराजि-पर्वतराजिसंदृशाचत्वारः क्रोधाः संज्वलनादिभेदाः, तिनिशलता-काष्ठाऽस्थि-शैलस्तम्भसदृशाश्चत्वारो मानाः, अवलेखन-गोमूत्रिका मेषशृङ्ग है। वंशमूलसमाश्वतम्रो मायाः, हरिद्रा-खजन-कर्दम-कृमिरागसदृशाश्वत्वारो लोभाः, यदाह
"जल-रेणु-पुढवि-पव्ययराईसरिओ चउव्विहो कोहो । तिणिसलया-कट्ठ-ट्ठिय-सेलत्थंभोवमो माणो ॥१॥ मायाऽवलेह-गोमुत्ति-मिढसिंग-घणवंसमूलसमा ।
लोभो हलिद्द-खंजण-कद्दम-किमिरागसारिच्छो ॥२॥"[ ] इति ॥ ८ ॥ अथ कषायाणां जेतव्यत्वमुपदर्शयितुं दोषानाह--
तत्रोपतापकः क्रोधः क्रोधो वैरस्य कारणम् ।
दुर्गतेर्वर्तनी क्रोधः क्रोधः शमसुखार्गला ॥९॥ १ सदृशाः क्रोधाः-खं. विना ॥ २ जल-रेणु-पृथिवी-पर्वतराजिसदृशश्चतुर्विधः क्रोधः। तिनिशलता-काष्ठा-ऽस्थि-शैलस्तम्भोपमो मानः॥१॥ माया-ऽवलेख-गोमूत्रिका-मेषशृङ्ग-धनवंशमूलसमा। लोभो हरिद्रा-खञ्जन-कर्दम-कृमिरागसदृशः॥२॥
॥ ७८७॥
Jain Education Intem
For Private & Personal Use Only
W
w .jainelibrary.org