________________
स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम्
॥ ७८६ ॥
Jain Education Inter
पक्षं मासार्धमभिव्याप्य संज्वलनः क्रोधो मानो माया लोभश्च भवति । संज्वलन इति तृणाग्निवदीपज्ज्वलनात्मकः, | परीषहादिसंपाते सपदि ज्वलनात्मको वा । प्रत्याख्यानो 'भीमो भीमसेनः' इति न्यायेन प्रत्याख्यानावरणः, प्रत्याख्यानं सर्व| विरतिमावृणोतीति कृत्वा । स मासचतुष्टयमभिव्याप्य भवति । अप्रत्याख्यानोऽप्रत्याख्यानावरणः, नञोऽल्पार्थत्वादल्पमपि प्रत्याख्यानमावृणोतीति कृत्वा । स वर्ष संवत्सरमभिव्याप्य भवति । अनन्तं भवमनुबभातीत्यनन्तानुबन्धकः, मिध्यात्वसह| चरितत्वाद्स्यानन्तभवानुबन्धित्वम् । स जन्म जीवितकालमभिव्याप्य भवति ॥ ७ ॥
प्रसन्नचन्द्रादेः क्षणमात्रस्थितीनामपि कषायाणामनन्तानुबन्धित्वम्, अन्यथा नरकयोग्यकर्मोपार्जनाभावात् । इति कालनियमकृते संज्वलनादिलक्षणेऽपरितुष्यलक्षणान्तरमाह-
वीतराग-यति-श्राद्ध-सम्यग्दृष्टित्वघातकाः । ते देवत्व - मनुष्यत्व - तिर्यक्त्व नरकप्रदाः ॥ ८ ॥
शब्दः प्रत्येकमभिसंबध्यते, तेन वीतरागत्वस्य यतित्वस्य श्रावकत्वस्य सम्यग्दृष्टित्वस्य च क्रमेण घातकाः । तथाहि--संज्वलनोदये यतित्वं भवति न पुनर्वीतरागत्वम्, प्रत्याख्यानावरणोदये श्रावकत्वं भवति न पुनर्यतित्वम्, अप्रत्याख्यानावरणोदये सम्यग्दृष्टित्वं भवति न पुनः श्रावकत्वम्, अनन्तानुबन्ध्युदये सम्यग्दृष्टित्वं न भवति । एवं वीतरागत्वघातकत्वं संज्वलनस्य, यतित्वघातकत्वं प्रत्याख्यानावरणस्य, श्रावकत्वघातकत्वमप्रत्याख्यानावरणस्य, सम्यग्दृष्टित्वघातकत्वमनन्तानुबन्धिनः स्थितं लक्षणं भवति ।
For Private & Personal Use Only
चतुर्थ
प्रकाशः
लोकः ८
॥ ७८६ ॥
5
कषायभेद
स्वरूप
वर्णनम्
10
16ww.jainelibrary.org