SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ ॥ ७८५ ॥ HETCHEHEHCHEHEHEREHEHEHEHEREICHERCHCHCHEVCHCHEHEARCHER 'अयमात्मैव' इति पूर्ववत् । संसारो नारक-तिर्यग्-नरा-ऽमररूपतया। किंविशिष्टः सन् ? कषायेन्द्रियनिर्जितः कषायैरिन्द्रियैश्च पराभूतः। तमेव चात्मानं तद्विजेतारं कषायेन्द्रियजेतारं मोक्षमाहुः। न हि स्वरूपलाभादन्यो मोक्षः । याऽप्यानन्दरूपता साऽपि स्वरूपलाभरूपैव । तस्मादात्मज्ञानमुपासनीयम् , दर्शन-चारित्रादेरत एव सिद्धेरिति ॥ ५॥ 'कषायेन्द्रियनिर्जितः' इत्युक्तम् , तत्र कषायान् विवृणोति स्युः कषायाः क्रोध-मान-माया-लोभाः शरीरिणाम् । चतुर्विधास्ते प्रत्येकं भेदैः संज्वलनादिभिः ॥६॥ क्रोध-मान-माया-लोभाः कषायशब्दवाच्या भवन्ति, कष्यन्ते हिंस्यन्ते प्राणिनोऽस्मिन्ननेनेति वा कषः संसारः कर्म वा, तस्याऽऽया लाभाः प्राप्तय इति कृत्वा। अथवा कषं संसारमयन्त एभिरिति कृत्वा । ते च शरीरिणां संसारिणां न तु मुक्तानाम् । ते च क्रोधादयः प्रत्येकं चतुर्विधाश्चतुष्प्रकाराः संज्वलनादिभिर्मेदैः। तत्र क्रोधः संज्वलनः, प्रत्याख्यानावरणः, अप्रत्याख्यानावरणः, अनन्तानुबन्धी च। एवं मानो माया लोभश्चेति ॥ ६॥ संज्वलनादीनां लक्षणमाह पक्षं संज्वलनः प्रत्याख्यानो मासचतुष्टयम् । अप्रत्याख्यानको वर्ष जन्मानन्तानुबन्धकः ॥ ७॥ Jain Education Intem For Private & Personal Use Only w w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy