________________
'पुब्बि दुञ्चिन्नाणं कडाणं कम्माणं वेअइत्ता मोक्खो, नत्थि अवेयइत्ता, तवसा या झोसइत्ता" [दशवै० चूलिका]। इत्याह--तपसापि, आस्तामन्येनानुष्ठानेन, तदात्माज्ञानभवं दुःखमात्मविज्ञानहीनै च्छेत्तुं शक्यते, ज्ञानमन्तरेण तपसोऽल्पफलत्वात् , यदाह
"जं अन्नाणी कम्मं खवेइ बहयाहि वासकोडीहिं ।।
तण्णाणी तिहिं गुत्तो खवेइ ऊसासमेत्तेण ॥ १॥" [बृहत्कल्पभाष्ये गा० ११७० ] तत् स्थितमेतत्-बाह्यविषयव्यामोहमपहाय रत्नत्रयसर्वस्वभूते आत्मज्ञाने प्रयतितव्यम् , यदाहुर्बाह्या अपि--
___“आत्मा रे श्रोतव्यो मन्तव्यो निदिध्यासितव्यः" [बृहदारण्यकोपनिषदि ४।५।६ ] इति । आत्मज्ञानं च नात्मनः कर्मभूतस्य पृथक् किश्चित् , अपि त्वात्मनश्चिद्रूपस्य स्वसंवेदनेमेव, नातोऽन्यदात्मज्ञानं नाम
१ पूर्व दुश्चीर्णानां कृतानां कर्मणां वेदयित्वा मोक्षः, नास्ति अवेदयित्वा, तपसा वा शोषयित्वा। २ पुचि दुच्चिन्नाणं सदुप्पडिकंताणं कडाणं कम्माणं वेअइत्ता-मुः। पुटिव कडाणं कम्माणं दुच्चिण्णाणं दुप्पडिक्कताणं वेअइता-हे.। “पावाणं च भो
खलु कडाणं कम्माण पुचि दुच्चिण्णाणं दुप्पडिकंताणं वेयइत्ता मोक्खो, नत्थि अवेइत्ता, तवसा वा झोसयित्ता, अट्ठारसमं पियं भवइ" इति दशवैकालिकसूत्रस्य प्रथमायां चूलिकायाम् ॥ ३ यदज्ञानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः। तज्ज्ञानी है
त्रिभिर्गुप्तः क्षपयति उच्छासमात्रेण॥ ४ "आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनि खल्बरे
दृष्टे श्रुते मते विज्ञात इदं सर्व विदितम्" इति बृहदारण्यकोपनिषदिचतुर्थेऽध्याये पञ्चमे ब्राह्मणे षष्ठं सूत्रम्॥ ५ ०मेव मृग्यते | मनातो-मु.॥
॥ ७८३॥
Jain Education Inte
For Private & Personal Use Only
W
w w.jainelibrary.org