________________
।। ७७९ ।।
Jain Education Inte
Beeeeeeeeeek
ततः कल्पेभ्यश्च्युत्वा मनुष्यायुर्निबन्धेन च्यवनमनुभूय मनुष्येषु विशिष्टदेश-जाति-कुलैश्वर्य-रूपवत्सूत्पद्यौदारिकशरीरत्वेन जन्म लब्ध्वा भुक्त्वाऽनुभूय भोगान् शब्द-रूप-रस-मन्ध-स्पर्शलक्षणानकृतपुण्यैरतिशयेन दुर्लभान्, यत् किञ्चिद् निमित्तमवाप्य सांसारिकेभ्यः सुखेभ्यो विरक्तो वैराग्यस्यैव परमप्रकर्षयोगेन सर्वविरतिं प्रतिपद्य तत्रैव जन्मनि क्षपकश्रेण्याक्रमणक्रमेण केवलज्ञानमुत्पाद्य निःशेषकर्मनिर्मूलनेन शुद्धात्मा मुक्तिमाप्नोति । अथ न तत्रैव जन्मनि मुक्तिस्तदा कियत्सु जन्मान्तरेषु मुक्तिः स्यादित्याह - ' अन्तर्भवाष्टकम्' इति, भवाष्टकाभ्यन्तर इत्यर्थः ॥ १५५ ॥
प्रकाशत्रयोक्तमर्थमुपसंहरति
इति संक्षेपतः सम्यग् रत्नत्रयमुदीरितम् ।
सर्वोऽपि यदनासाद्य नासादयति निर्वृतिम् ॥ १५६ ॥
इति प्रकाशत्रयेण रत्नत्रयं ज्ञानदर्शनचारित्रात्मकं योगत्वेन ख्यातमुदीरितं कथितम् । कथम् ? सम्यग् जिनागमाविरोधेन । विस्तरस्यासर्वविदा वक्तुमशक्यत्वादाह -- संक्षेपतः । रत्नत्रयं विनाऽन्यतोऽपि कारणाद् निर्वाणप्राप्तिं शङ्कमानं
३ किञ्चन - खं. हे. ड. थ. ॥ ४ प्रत्याख्यात० - सं. मु. ॥
१ ० र्निबन्धनच्यवन०- शां. ॥ २ ०कुलबलै० - मु.॥ ५ ० नातिविस्तरस्या० -खं. ॥
For Private & Personal Use Only
5
10
॥ ७७९ ॥
www.jainelibrary.org