SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ स्वोपज्ञ वृत्ति विभूषितं योगशास्त्रम् ॥ ७७८ ॥ Jain Education aaaaa अथ प्रकृतस्य श्रावकस्योत्तरां गतिं श्लोकद्वयेनाह प्राप्तः स कल्पेष्विन्द्रत्वमन्यद्वा स्थानमुत्तमम् । मोदतेऽनुत्तरप्राज्यपुण्यसंभारभाक् ततः ॥ १५४ ॥ १ अथ-मु. च्युत्वोत्पद्य मनुष्येषु भुक्त्वा भोगान् सुदुर्लभान् । विरक्तो मुक्तिमाप्नोति शुद्धात्माऽन्तर्भवाष्टकम् ॥ १५५ ॥ “स श्रावको यथोक्तश्रावकधर्मपरिपालनात् कल्पेषु सौधर्मादिषु सम्यग्दृष्टीनामन्यत्रोत्पादाभावात् इन्द्रत्वं शक्रत्वम्, अन्यद् वा सामानिक त्रायस्त्रिंश- पारिषद्य-लोकपालादिसंवन्धि स्थानं पदं प्राप्तः, उत्तममित्याभियोग्यादिस्थानव्यवच्छेदार्थम्, तत्रोत्पन्नश्च मोदते प्राप्तरत्नविमान-महोद्यान -मज्जनवापी - विचित्ररत्न-वस्त्राऽऽभरणः सुरसुन्दरीचामरव्यजनव्याजवार्यमाणमौलिमन्दारमाल्यमधुकरोऽहमहमिका सेवासमायात त्रिदशकोटीचाटुकारजयजयध्वनिप्रतिध्वनितनभोऽङ्गणो मनोमात्रपरिश्रम| संमिलित सकलवैषयिकसुखलालितो नानासिद्धायतनयात्रासमुत्पन्नहर्षप्रकर्षः सन् प्रमोदभाग् भवति । अत्र हेतुमाह - अनुत्तरा अनन्यसाधारणाः प्राज्या बहवो ये पुण्यसंभारास्तान् भजते तद्भाक् ॥ १५४ ॥ For Private & Personal Use Only तृतीयः प्रकाशः लोको १५४-१५५ ।। ७७८ ॥ 5 श्रावकस्य | सिद्धिं यावद् गतेर्वर्णनम् 10 www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy