SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ || 1999 || Jain Education Inter Brararaok ओ पञ्च योजनशत्याः पूर्वाब्धौ दक्षिणोदधौ । पश्चिमाब्धौ च वीक्षेऽहमुदीच्यां त्वा हिमाचलात् ॥ ५५ ॥ ऊर्ध्वं सौधर्मकल्पादा पश्यामि भगवन्नहम् । अधो रत्नप्रभायास्तु पृथ्व्या आ लोलुपोद्धृतात् ॥ ५६ ॥ मुनिरूचेऽवधिज्ञानं जायते गृहमेधिनः । न त्वियन्मात्रविषयं स्थानस्यालोचयास्य तत् ॥ ५७ ॥ आनन्दोऽप्यब्रवीदेतदस्ति मे, तत् सतामपि । भावानामभिधाने किं भवेदालोचना क्वचित् १ ॥ ५८ ॥ भवेदालोचना नो चेद् ननु तद् यूयमेव हि । आलोचनामाददीध्वं स्थानस्यामुष्य संप्रति ॥ ५९ ॥ आनन्देनेत्यभिहिते साशङ्को गौतमस्ततः । ययौ श्रीवीरपादान्ते भक्तपानाद्यदर्शयत् ।। ६० । आनन्दस्यावधिज्ञानमानविप्रतिपत्तिजम् । वादं चावेदयाञ्चक्रे गौतमस्तं जगद्गुरोः || ६१ ।। आलोचनीयं तदिह किमानन्देन किं मया । गौतमेनेति विज्ञप्ते भवतेत्यादिशत् प्रभुः ।। ६२ ।। तथैव प्रतिपेदे तद् विदधे च तथैव सः । क्षमयामास चानन्दं क्षमिणं क्षमिणां वरः ॥ ६३ ॥ वर्षाणि विंशतिमिति प्रतिपाल्य धर्ममानन्द आसददथानशनेन मृत्युम् । जज्ञे सुरोऽरुणविमानव विदेहेषूत्पद्य यास्यति पदं परमं ततश्च ।। ६४ ।। १५३ ।। [इति आनन्दश्राद्धकथानकम् ] १ आपं च योजनशत- मु० । आ पंचयोजनशतीं - खं. संपू. हे. ॥ ४ एतदन्तर्गतः पाठो नास्ति - मु० विना ।। २ लोलुपाद् वनात्-मु.॥ ३ ०नधरो वि०-ड. थ. ॥ For Private & Personal Use Only Belak 5 10 ॥ ७७७ ॥ www.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy