SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ ॥ ७७५॥ RECENTRENCHEHREHENRIEHRESIDHSICHOICISIGHCHCHICH अथ प्रणम्य सर्वज्ञमिति पप्रच्छ गौतमः। महात्मायं किमानन्दो यतिधर्म ग्रहीष्यति ? ॥ २८ ॥ त्रिकालदशी भगवान् कथयामासिवानिति । श्रावकव्रतमानन्दः सुचिरं पालयिष्यति ॥ २९ ॥ ततः सौधर्मकल्पेऽसौ विमाने चारुणप्रभे। भविष्यत्यमरवरश्चतुष्पल्योपमस्थितिः ॥ ३० ॥ सततं जागरूकस्य द्वादशव्रतपालने। आनन्दस्य ततोऽतीयुर्हायनानि चतुर्दश ॥ ३१ ॥ निशान्ते चिन्तयामास सोऽन्येद्यरिति शुद्धधीः । आश्रयः श्रीमतामस्मि भूयसामिह पत्तने ॥ ३२॥ विक्षिप्तश्चिन्तया तेषां मा स्म स्खलमहं क्वचित । अङ्गीकृतेऽस्मिन् सर्वज्ञप्रज्ञप्ते धर्मकर्मणि ॥ ३३॥ ततो मनसिकृत्यैवं प्रातरुत्थाय कृत्यवित् । कोल्लाके पोषधशाला सुविशालामचीकरत् ॥ ३४ ॥ निमन्त्र्य मित्रसंबन्धिबान्धवादीनसावथ । भोजयित्वाऽखिलं ज्येष्ठे भारं पुत्रेऽप्यरोपयत् ॥ ३५॥ ततश्च पुत्रमित्रादीन् सर्वानप्यनुमान्य सः। ययौ पोषेधशालायां धर्मकर्मविधित्सया ॥ ३६ ॥ तस्थौ तत्र महात्मासौं कर्मेव क्रशयन् वपुः। धर्म भगवदादिष्टमात्मानमिव पालयन् ॥ ३७॥ निःश्रेणिकल्पां स्वर्गापवर्गसौधाधिरोहणे। श्रावकप्रतिमापङिमारुरोह क्रमेण सः ॥ ३८॥ तपसा तेन तीव्रण शुष्कासृपिशिताङ्गकः। चर्मवेष्टितयष्टयाभो महासत्त्वो बभूव सः ॥ ३९ ॥ धर्मजागयया जाग्रन्निशीथसमयेऽन्यदा। अभग्नस्तपसानन्दश्चेतस्येवमचिन्तयत ॥४०॥ यावदुत्थातुमीशोऽस्मि शब्दायितुमपीश्वरः। धर्माचार्यश्च भगवान् यावद् विहरते मम ॥ ४१ ॥ १ पौषध०-मु. शां.॥ २ कृश०-मु.॥ Jain Education Inter For Private & Personal Use Only w.jainelibrary.org
SR No.600013
Book TitleYogashastram Part_2
Original Sutra AuthorHemchandracharya
AuthorJambuvijay
PublisherJain Sahitya Vikas Mandal
Publication Year
Total Pages658
LanguageSanskrit
ClassificationManuscript, Yoga, & Sermon
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy